________________
भाष्यगाथाः ५४२६-३५] चतुर्थ उद्देशः । ___ गुरोः पदकमलस्य प्रणामं कृत्वा वक्तव्यम्-छेदश्रुतस्य प्रतिपृच्छां मम प्रयच्छत । अत्र चागीतार्थाः शृण्वन्ति ततोऽन्यस्यां वसतो गच्छावः । एवमुक्तोऽपि यदि तस्या वसते निर्गच्छति तत्राख्यानिकादिकथापनेन चिरं रात्रौ गुरवो जागरणं कारापणीयाः, 'तेषां च' अगीतार्थानाम् 'वयमाचार्यमेवं नेप्यामः, भवद्भिर्बोलो न कर्तव्यः' इति निवेदनं कृत्वा गन्तव्यम् ॥ ५४३० ॥ इदमेव व्याचष्टे
सदं च हेतुसत्थं, अहिजओ छेदसुत्त णडं मे।
एत्थ य मा असुतत्था, सुणिज तो अण्णहि वसिमो ॥ ५४३१ ।। 'शब्दशास्त्रम्' ऐन्द्रादिकं हेतुशास्त्रं' सम्मत्यादिकम् एवमादिकं शास्त्रमधीयानस्य 'छेदसूत्रं निशीथादिकं सूत्रतोऽर्थतस्तदुभयतो वा मम नष्टं तस्य प्रतिपृच्छां मे प्रयच्छत । 'अत्र च' वसतौ 'अश्रुतार्थाः' शैक्षा अपरिणामका वा मा शृणुयुः, ततोऽन्यस्यां वसतौ वसामः । 10 एवमन्यव्यपदेशेन निष्काशयति ।। ५४३१ ॥ अथ तस्या वसतेः क्षेत्राद्वा निर्गन्तुं नेच्छति ततोऽयं विधिः
खित्ताऽऽरक्खिणिवेयण, इयरे पुव्वं तु गाहिया समणा ।
जग्गविओ सो अ चिरं, जह णिजंतो ण चेतेती॥ ५४३२ ॥ 'आरक्षिकः' दाण्डपाशिकस्तस्य निवेदनं क्रियते-"खित्त" त्ति अस्माकं क्षिप्तचित्तः साधुः 15 समस्ति तं वयमर्धरात्रे वैद्यसकाशं नेष्यामः, स यदि नीयमानः 'हियेऽहं हियेऽहम्' इत्यारटेत् ततो युष्माभिर्न किमपि भणनीयम् । 'इतरे' अगीतार्थाः श्रमणाः पूर्वमेव ग्राहिताः कर्तव्याःवयमाचार्यमेवं नेप्यामः, मा बोलं कुरुध्वम् । स चाचार्यश्चिरमाख्यायिकाः कथापयित्वा जागरितः सन् यदा निर्भरं सुप्तो भवति तदा नीयते यथा नीयमानो न किञ्चित् चेतयति ॥ ५४३२ ।। निण्हयसंसग्गीए, बहुसो भण्णंतुवेह सो कुगइ ।
- 20 तुह किं ति वच परिणम, गता-ऽऽगते णीणिओ विहिणा ॥५४३३।। अथ निहवानां संसाऽऽचार्यो न निर्गच्छति, बहुशो भण्यमानोऽप्युपेक्षां कुरुते, अथवा ब्रूयात्-यद्यहं निवसंसर्ग करोमि ततो भवतः किं दुःखयति ? व्रज त्वं यत्र गन्तव्यम् । एवं परिणामं गुरूणां ज्ञात्वा शिष्येण 'गता-ऽऽगतेन' अन्यं गणं गत्वा शास्त्राण्यधीत्य भूय आगतेन निवान् पराजित्याचार्यः 'विधिना' अनन्तरोक्तेन निष्काशितः कर्तव्यः ॥५४३३।। 25
एसा विही विसजिएँ, अविसजिएँ लहुग दोस आणादी ।
तेसि पि हुंति लहुगा, अविहि विही सा इमा होइ ॥ ५४३४ ॥ एष विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः । अविसर्जितस्य तु गच्छतश्चतुर्लघु दोषाश्चाज्ञादयः। तेषामपि' प्रतीच्छतां चतुर्लघुकाः । एषोऽविधिरुक्तोऽतो विधिना गन्तव्यम् ॥५४३४॥ स चायं विधिर्भवति
30 दंसणनिते पक्खो, आयरि-उज्झाय-सेसगाणं च ।
एकेक पंच दिवसे, अहवा पक्खेण सव्वे वि ॥ ५४३५ ।। १°शास्त्रं च' ऐन्द्रादिकं व्याकरणं हेतुशास्त्रं' सम्मत्यादिकं प्रमाणशास्त्रमधी कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org