________________
१४४० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त प्रकृते सूत्रम् २०
भिक्खूगा जहिं देसे, बोडिय-थलि-णिण्हएहिं संसग्गी ।
तेसिं पण्णवणं असहमाणे वीसज्जिए गमणं ॥ ५४२६ ॥ यत्र देशे 'भिक्षुकाः' बौद्धा बोटिका वा निहवा वा बहवस्तेषां तत्र स्थली तत्र ये आचार्याः स्थितास्तैः सार्द्धमाचार्याणां संसर्गिः प्रीतिरित्यर्थः; ते च भिक्षुकादयः खसिद्धान्तं प्रज्ञापयन्ति, 5 स चाचार्यो दाक्षिण्येन तर्कग्रन्थाप्रवीणतया वा तूष्णीकस्तिष्ठति, तां च तदीयां प्रज्ञापनामसहमानः कश्चिद् विनेयश्चिन्तयति-अन्यं गणं गत्वा दर्शनप्रभावकानि शास्त्राणि पठामि येनामून् निरुत्तरान् करोमि । एवं विचिन्त्य स तथैव गुरूनापृच्छय तैर्विसर्जितो गच्छति ॥ ५४२६ ॥ इदमेव भावयति
लोए वि अ परिवादो, भिक्खुगमादी य गाढ चमहिंति ।
विप्परिणमंति सेहा, ओभामिजंति सड्ढा य ॥ ५४२७ ॥ ___ भिक्षुकादीनां खसिद्धान्तं शिर उद्घाट्य प्ररूपयतामपि यदा सूरयो न किमपि त्रुवते ततो लोकेऽपि च परिवादो जातः- एते ओदनमुण्डा न किमपि जानते, अमी तु सौगताः सर्वम. वबुध्यन्ते । एवं ते भिक्षुकादयः परिवादं श्रुत्वा गाढतरं जैनशासनं चमढयन्ति, शैक्षाश्च विपरिणमन्ति, श्राद्धाश्च रक्तपटोपासकैरपभ्राज्यन्ते-एते श्वेतभिक्षवो बठरशिरोमणयश्चाटुका. 16 रिणः, यद्यस्ति सामर्थ्य ततोऽस्माकमुत्तरं प्रयच्छन्तु । अथवा तैः भिक्षुकादिभिः स्थलिकायामाचार्यस्यापि वण्टको निवद्धो वर्तते, भाग इत्यर्थः ॥ ५४२७ ॥ ततः
रसगिद्धो व थलीए, परतित्थियतजणं असहमाणो ।
गमणं बहुस्सुतत्तं, आगमणं वादिपरिसा उ ॥ ५४२८॥ स आचार्यस्तस्यां स्थलिकायां 'रसगृद्धः' स्निग्ध-मधुराहारलम्पटः सामर्थे सत्यपि न किञ्चि20 दुत्तरं प्रयच्छति । एवमादिकां परतीर्थिकतर्जनामसहमानः शिष्य आचार्य विधिना पृष्ट्वा 'निर्गतः' अन्यगणगमनं कृतवान् , तत्र च तर्कशास्त्राणि श्रुत्वा बहुश्रुतत्वं तस्य सञ्जज्ञे, ततो भूयः खगच्छे आगमनम् , आगतेन च पूर्वमाचार्या द्रष्टव्याः, ततोऽन्यस्यां वसती स्थित्या या तत्र वादमार्गकुशला पर्षत् तां परिचितां कृत्वा राज्ञो महाजनस्य च पुरतः परतीथिकान् निप्पिष्टप्रश्नव्याकरणान् करोति ॥ ५४२८॥' 25 वायपरायणकुविया, जति पडिसेहंति साहु लटुं च ।
अह चिरणुगओ अम्हं, मा में पवत्तं परिहवेह ॥ ५४२९ ॥ वादे पराजयेन कुपिताः सन्तो यदि ते भिक्षुकादय आचार्यस्य तं वण्टं प्रतिषेधयन्ति ततः 'साधु' सुन्दरं 'लष्टं च' अभीष्टं जातमिति । अथ तत्र कोऽपि ब्रूयात्-एतस्य को दोषः ? चिरमनुगत एषोऽस्माकम् , मा पूर्वप्रवृत्तं दातव्यमस्य परिहापयत ॥ ५४२९ ॥ 30 ततः को विधिः ? इत्याह
काऊण य प्पणामं, छेदसुतस्सा दलाह पडिपुच्छं ।
अण्णत्थ वसहि जग्गण, तेसिं च णिवेदणं काउं ॥ ५४३०॥ १ ततश्च किं सत्रायते ? इत्याह इत्यवतरण कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org