________________
10
भाष्यगाथाः ५४१९-२५] चतुर्थ उद्देशः ।
१४३९ एवमेषा पञ्चविधा उपसम्पत् । एतासु पञ्चस्वप्याभवयवहारमाह-"बावीस" इत्यादि, श्रुतोपसम्पदि द्वाविंशतिर्नालबद्धानि लभ्यन्ते । तद्यथा-माता १ पिता २ प्राता ३ भगिनी४ पुत्रो ५ दुहिता ६, मातुर्माता ७ मातुः पिता ८ मातुर्कीता ९ मातुर्भगिनी १०, एवं पितुर्माता ११ पिता १२ भ्राता १३ भगिनी १४, भ्रातुः पुत्रो १५ दुहिता १६, भगिन्याः पुत्रः १७ पुत्रिका १८, पुत्रस्य पुत्रः १९ पुत्रिका २०, दुहितुः पुत्रः २१ पुत्रिका २२ चेति ।। एतानि द्वाविंशतिरपि श्रुतोपसम्पदं प्रतिपन्नस्याभवन्ति । सुख-दुःखोपसम्पन्नस्तु एनां द्वाविंशतिमन्यांश्च पूर्वसंस्तुत पश्चात्संस्तुतान् प्रपौत्र-श्वशुरादीन् लभते । क्षेत्रोपसम्पन्नस्तु एतान् सर्वानपि वयस्यांश्च लभते । मार्गोपसम्पन्न एतान् सर्वानपि लभते, अपरे च ये केचिद् दृष्टाभाषितास्तानपि प्राप्नोति । विनयोपसम्पदं प्रतिपन्नस्तु 'सर्वानपि' ज्ञाता-ऽज्ञात-दृष्टा-ऽदृष्टान् लभते, नवरम्-विनयाहस्य विनयं प्रयुते ॥ ५४२३ ॥
"सए ठाणे" (५१२०) ति यदुक्तं तस्यायमर्थः-पञ्चविधाऽप्युपसम्पत् खस्मिन् स्थाने प्रतिपत्तव्या । किमुक्तं भवति ?-श्रुतोपसम्पदं प्रतिपित्सोर्यस्य पार्श्वे श्रुतमस्ति तत् तस्य खस्थानम् , सुख-दुःखार्थिनः स्वस्थानं यत्र वैयावृत्यकराः सन्ति, क्षेत्रोपसम्पदर्थिनो यदीये क्षेत्रे भक्त-पानादिकमस्ति, मार्गोपसम्पदर्थिनो यत्र मार्गज्ञः समस्ति, विनयोपसम्पदर्थिनो यत्र विनयकरणं युज्यते, एतानि स्वस्थानानि । अथवा स्वस्थानं नाम-प्रव्रज्यया श्रुतेन च य एक-15 पाक्षिकरतत्र प्रथममुपसम्पत्तव्यम् , पश्चात् कुलेन श्रुतेन चैकपाक्षिकस्य पार्थे, ततः श्रुतेन गणेन चैकपाक्षिकस्य समीपे, ततः श्रुतेनैकपाक्षिकस्य सन्निधौ, ततः प्रत्रज्ययैकपाक्षिकस्य सकाशे, ततः प्रव्रज्यया श्रुतेन वा नैकपाक्षिकस्यापि पार्थे उपसम्पत् प्रतिपत्तव्या ॥ ___ आह-साधर्मिकवात्सल्याराधनाथ सर्वेणापि सर्वस्य श्रुताध्यापनादि कर्तव्यं ततः किमर्थ प्रथमं प्रव्रज्या-कुलादिभिरासन्नतरेषूपसम्पद्यते ? इत्याह
सव्वस्स वि कायव्यं, निच्छयओ किं कुलं व अकुलं वा।
कालसभावममत्ते, गारव-लजाहिँ काहिंति ॥ ५४२४ ॥ निश्चयतः सर्वेण सर्वस्याप्यविशेषेण श्रुतवाचनादिकमात्मनो विपुलतरां निर्जरामभिलषता कर्तव्यम् , किं कुलमकुलं वा इत्यादिविचारणया ?; परं दुष्पमालक्षणो यः कालस्तस्य यः खभावः-अनुभावस्तेन 'आत्मीयोऽयम्' इत्यादिकं यद् ममत्वम् , यच्च गुर्वादिविषयं गौरवं-25 बहुमानबुद्धिः, या च तदीया लज्जा, एतैः प्रेरिताः सुखेनैव करिष्यन्तीति कृत्वा प्रथमं प्रव्रज्यादिभिरासन्नतरेषूपसम्पद्यत इति ॥५४२४॥ गतं ज्ञानार्थ गमनम् । अथ दर्शनार्थ गमनमाह
कालिय पुवगए वा, णिम्माओ जति य अस्थि से सत्ती ।
दसणदीवगहेडं, गच्छइ अहवा इमेहिं तु ॥ ५४२५ ॥ कालिकश्रुते पूर्वगते वा यद् वा यस्मिन् काले श्रुतं प्रचरति तस्मिन् सूत्रेणार्थेन च यदा 30 निर्मातो भवति, यदि च तस्य ग्रहण-धारणशक्तिस्तथाविधा समस्ति ततो दर्शनदीपकानिसम्यग्दर्शनोज्ज्वालनकारीणि यानि सम्मत्यादीनि शास्त्राणि तेषां हेतोरन्यं गणं गच्छति ॥ ५४२५ ॥ अथवा एभिः कारणैर्गच्छेत्
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org