SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४३८ सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [गणान्त०प्रकृते सूत्रम् २० विंशतिः । यदि एतावता कालेनैकोऽपि निर्मातस्तदा विहरन्तु, अथ न निर्मातस्ततो भूयोऽपि कुल-गण-सद्धेषु तथैवोपतिष्ठन्ते, तेऽपि तथैवं पाठयन्ति । एतान्यपि द्वादश वर्षाणि चतुर्विंशत्या मील्यन्ते जाता षट्त्रिंशत् । यद्येवं षट्त्रिंशता वषैरेकोऽपि निर्मातस्ततो विहरन्तु ।। ५४१८॥ - अथैकोऽपि न निर्मातः, कथम् ? इति चेद् उच्यते ओमादिकारणेहि ब, दुम्मेहत्तेण वा न निम्माओ । काऊण कुलसमायं, कुल थेरे वा उबटुंति ॥ ५४१९ ॥ अवमा-ऽशिवादिभिः कारणैरनवरतमपरापरग्रामेषु पर्यटतां दुर्मेधस्तया वा नकोऽपि निर्मातस्ततः कुलसमवायं कृत्वा [कुलं ] कुलस्थविरान् वा सर्वेऽप्युपतिष्ठन्ते ततस्तैरुपसम्पदं ग्राहयितव्याः ॥ ५४१९ ॥ कुत्र पुनः ? इति चेद् उच्यते10 पव्यजएगपक्खिय, उवसंपय पंचहा सए ठाणे । छत्तीसाऽतिकते, उवसंपय पत्तुवादाए ॥ ५४२० ॥ यः प्रव्रज्यया एकपाक्षिकस्तम्य पार्थे उपसम्पदं तान् कुलस्थविरा ग्राहयेयुः । सा च उपसम्पत् पञ्चधा वक्ष्यप्राणनीत्या भवति । तस्यां चोपसम्पदि षट्त्रिंशद्वर्षातिक्रमे प्राप्तायां "सए ठाणि" ति विभक्तिव्यत्ययात् 'स्वकम्' आत्मीयं स्थानम् 'उपादाय' गृहीत्वा तैरुपसम्पत्तव्यम् 15॥ ५४२० ॥ इदमेव भावयति गुरुसज्झिलओ सज्झंतिओ व गुरुगुरु गुरुस्स वा णत्तू । अहवा कुलिचतो ऊ, पव्यजाएगपक्खीओ ॥ ५४२१ ॥ 'गुरुसज्झिलकः' गुरूणां सहाध्यायी पितृव्यस्थानीयः, 'सज्झन्तिकः' आत्मनः सब्रह्मचारी भ्रातृस्थानीयः, 'गुरुगुरुः पितामहस्थानीयो गुरुः, गुरोः सम्बन्धी 'नप्ता' प्रशिष्य आत्मनो 20 भ्रातृव्यस्थानीयः, एते प्रव्रज्यया एकपाक्षिका उच्यन्ते । अथवा 'कुलसत्कः' समानकुलोद्भवः सोऽपि प्रव्रज्ययैकपाक्षिकः । एतेषां समीपे यथाक्रममुपसम्पत्तव्यम् ।। ५४२१॥ पव्यजाएँ सुएण य, चउभंगुवसंपया कमेणं तु । पुव्वाहियवीसरिए, पढमासइ ततियभंगे उ ॥ ५४२२ ॥ इहैकपाक्षिकः प्रव्रज्यया श्रुतेन च भवति । तत्र प्रवज्यैकपाक्षिकोऽनन्तरमुक्तः, श्रुतैकपा25 क्षिकः-येन सहैकवाचनिकं सूत्रम् । अत्र चतुर्भङ्गी-प्रव्रज्ययैकपाक्षिकः श्रुतेन च १ प्रव्र ज्यया न श्रुतेन २ श्रुतेन न प्रव्रज्यया ३ न प्रव्रज्यया न श्रुतेन ४ । एतेषु चामुना क्रमेणोपसम्पत् प्रतिपत्तव्या । “पढमा” इत्यादि, प्रथमतः प्रथमभङ्गे उपसम्पत्तव्यम् , तदभावे तृतीये भङ्गे । कुतः ? इत्याह-यतः पूर्वाधीतं श्रुतं विस्मृतं सत् तेषु सुखेनैवोज्ज्वालयितुं शक्यते, श्रुतैकपाक्षिकत्वात् ॥ ५४२२ ॥ अथ पञ्चविधामुपसम्पदमाह सुय सुह-दुक्खे खेत्ते, मग्गे विणओवसंपयाए य । बावीस संथुय वयंस दिट्ठभट्टे य सव्वे य ॥ ५४२३ ॥ श्रुतोपसम्पत् १ सुख-दुःखोपसम्पत् २ क्षेत्रोपसम्पद् ३ मार्गोपसम्पद् ४ विनयोपसम्पत् ५, १ व द्वादश वर्षाणि पाठ' का० ॥ २ अत्रैव विशेषमाह इत्यवतरणं कां० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy