________________
भाष्यगाथाः ५३९२-९९] चतुर्थ उद्देशः ।
१४३३ चत्वारो लघवः, सचित्तादिकं चाभाव्यं न लभन्ते । एषोऽविधिरुक्तः, विधिः पुनरयं वक्ष्यमाणो. भवति ॥ ५३९५ ॥ स पुनराचार्य एभिः कारणैर्न विसर्जयति
परिवार-पूयहेउं, अविसज्जते ममत्तदोसा वा।
अणुलोमेण गमेजा, दुक्खं खु विमुंचिउं गुरुणो ॥ ५३९६ ॥ आत्मनः परिवारनिमित्तं न विसर्जयति, बहुभिर्वा परिवारितः पूजनीयो भविष्यामि, 'मम 5 शिष्योऽन्यस्य पार्श्व गच्छति' इति ममत्वदोषाद्वा न विसर्जयति, एवमविसर्जयन्तं गुरुम् 'अनुलोना' अनुकूलैर्वचोभिः 'गमयेत्' प्रज्ञापयेत् । कुतः ? इत्याह- 'दुःखं' दुष्करं 'खुः' अवधारणे गुरून् विमोक्तुम् , परमोपकारकारित्वाद् न ते यतस्ततो विमोक्तुं शक्या इति भावः । ततः प्रथमत एव विधिना गुरूनापृच्छय गन्तव्यम् ॥ ५३९६ ॥ कः पुनर्विधिः ? इति चेद् उच्यते
10 नाणम्मि तिण्णि पक्खा, आयरि-उज्झाय-सेसगाणं च ।
एकेक पंच दिवसे, अहवा पक्खेण एकेकं ।। ५३९७ ॥ ज्ञानार्थं गच्छता 4 आचार्योपाध्याय-शेषसाधूनां - त्रीन् पक्षान् आपृच्छा कर्तव्या । तत्र प्रथममाचार्य पञ्च दिवसानापृच्छति, यदि न विसर्जयति तत उपाध्यायं पञ्च दिवसानापृच्छेत् , यदि सोऽपि न विसर्जयति तदा शेषाः साधवः पञ्च दिवसान् प्रष्टव्याः, एष एकः पक्षो गतः; 16 ततो द्वितीयं पक्षमेवमेवाचार्योपाध्याय-शेषसाधून प्रत्येकमेकैकं पञ्चभिर्दिवसैः पृच्छति; तृतीयमपि पक्षमेवमेव पृच्छति, एवं त्रयः पक्षा भवन्ति । अथवा स पेक्षेणैकैकं पृच्छेत् । किमुक्तं भवति ? --- निरन्तरमेवाचार्य एकं पक्षमाप्रच्छनीयः, तत उपाध्यायोऽप्येकं पक्षम् , गच्छसाधवोऽप्येकं पक्षम् , एवं वा त्रयः पक्षाः । एवमपि यदि न विसर्जयन्ति ततोऽविसर्जित एव गच्छति ॥ ५३९७ ॥
20 एयविहिमागतं तू, पडिच्छ अपडिच्छणे भवे लहुगा ।
अहवा इमेहिँ आगते, एगादि पडिच्छती गुरुगा ॥ ५३९८ ॥ एतेन विधिना आगतं प्रतीच्छकं प्रतीच्छेत् । अप्रतीच्छतश्चतुर्लघुका भवेयुः । अथामीभिरेकादिभिः कारणैरागतं प्रतीच्छति ततश्चतुर्गुरुकाः ।। ५३९८ ॥ तान्येव एकादीनि कारणान्याह
एगे अपरिणते या, अप्पाहारे य थेरए ।
गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥ ५३९९ ॥ एकाकिनमाचार्य मुक्त्वा स समागतः । अथवा तस्याचार्यस्य पार्थे ये तिष्ठन्ति ते 'अपरिणताः' आहार-वस्त्र-पात्र-शय्या-स्थण्डिलानामकल्पिकाः तैः सहितमाचार्य मुक्त्वा आगतः । अथवा स आचार्यः 'अल्पाधारः' तमेव पृष्ट्वा सूत्रा-ऽर्थवाचनां ददाति । स्थविरो वा स आचार्यः, 30 यद्वा तदीये गच्छे कोऽपि साधुः स्थविरस्तस्य स एव वैयावृत्यकर्ता । ग्लानो वा बहुरोगी वा स आचार्यः । 'ग्लानः' अधुनोत्पन्नरोगः, 'बहुरोगी नाम' चिरकालं बहुभिर्वा रोगैरभिभूतः । १-२१ एतचिहान्तर्गतः पाठः का, एव वर्तते ॥ ३ °म' प्रभूतकालरोगेण वहुभिः का० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org