________________
सनियुत्रि-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त०प्रकृते सूत्रम् २० __ आयरिय दोणि आगत, एक्के एक्के वऽणागए गुरुगा । ___ ण यं लभती सच्चित्तं, कालगते विप्परिणए वा ॥ ५३९२ ॥ . . यदि तौ द्वावपि आचार्यावागतौ ततो यत् तेन लब्धं तद् उभयोरपि साधारणम् । अथैकस्तयोरागतः 'एकश्च' द्वितीयो नागतः ततोऽनागतस्य चतुर्गुरु, यच्च सचित्तमचितं वा तदसौ न लभते, यस्तं गवेषयितुमागतस्तस्य सर्वमाभवति । एवं व्यादिसङ्ख्याकेवाचार्येष्वभिधारितेषु भावनीयम् । अथासौ ग्लानः कालगतस्तैदाऽपि यो गवेषयितुमागच्छति तस्यैवाभवति, नेतरेपाम् । अथासौ विपरिणतस्ततो यस्य विपरिणतः स न लभते । यत् पुनः सचित्तादिकमभिधार्यमाणे लब्धं पश्चाद् विपरिणतस्ततो यदविपरिणते भावे लब्धं तद् लभते, विपरिणते भावे लब्धं न लभते ॥ ५३९२ ॥
पंथ सहाय समत्थो, धम्म सोऊण पव्ययामि त्ति ।
खेत्ते य बाहि परिणये, वाताहडें मग्गणा इणमो ॥ ५३९३ ॥ ... :- योऽसौ ज्ञानार्थं प्रस्थितस्तस्य पथि गच्छतः कश्चिद् मिथ्यादृष्टिः 'वाताहृतः' वातेना
ऽऽहृत इव वाताहृतः, आकस्मिक इत्यर्थः, » समर्थः सहायो मिलितः, स च तस्य पार्श्व धर्म श्रुत्वा 'प्रव्रजामि' इति परिणाममुपगतवान् । स च परिणामः साधुपरिगृहीते क्षेत्रे जातो 16 भवेत् , 'क्षेत्राद् वा बहिः' इन्द्रस्थानादौ वा अपरिगृहीते वा क्षेत्रे, ततस्तत्र वाताहृते प्रत्रजितुं परिणते इयं मार्गणा भवति ॥ ५३९३ ॥
खेत्तम्मि खेत्तियस्सा, खेतबहिं परिणए पुरिल्लस्स ।
अंतर परिणय विप्परिणए य णेगा उ मग्गणता ॥ ५३९४ ॥ - साधुपरिगृहीते क्षेत्रे प्रव्रज्यापरिणतः क्षेत्रिकस्याभवति । क्षेत्राद् बहिः परिणतस्तु "पुरि20 लस्स" त्ति तस्यैव साधोराभवति । अथान्तराऽन्तरा स प्रव्रज्यायां परिणतो विपरिणतश्च भवति . ततः क्षेत्रेऽक्षेत्रे च धर्मकथिकस्य राग-द्वेषौ प्रतीत्यानेका मार्गणा । तद्यथा-~यदि धर्मकथी ऋजुतया कथयति तदा क्षेत्रे परिणतः क्षेत्रिकस्याभवति, अक्षेत्रे परिणतो धर्मकथिकस्य । अथ विपरिणते भावे रागेण न कथयति, यदा क्षेत्रान्निर्गतो भविष्यति तदा कथयिष्यामि येन मे आभवति । एवं क्षेत्रनिर्गतस्य कथिते यदि परिणतः तदा क्षेत्रिकस्याभवतीत्येवं 25 विभाषा कर्तव्या ॥ ५३९४ ॥
वीसञ्जियम्मि एवं, अविसजिएँ चउलहुं च आणादी।
तेसि पि हुँति लहुगा, अविधि विही सा इमा होइ ॥ ५३९५ ॥ एवमेष विधिर्गुरुणा विसर्जिते शिष्ये मन्तव्यः । अथाविसर्जितो गच्छति तदा शिष्यस्य प्रतीच्छकस्य च चतुर्लघु । अथ विसर्जितो द्वितीयं वारमनापृच्छय गच्छति तदा मासलघु 30 आज्ञादयश्च दोषाः । येषामपि समीपेऽसौ गच्छति तेषामप्यविधिनिर्गतं तं प्रतीच्छतां भवन्ति
१ तस्य ग्लानीभूतस्य प्रतिचरणाय यदि कां० ॥ २ °स्तत्रापि डे० ॥ ३ अथात्रैव विशेषान्तरमाह इत्यवतरणं का० ॥ ४°णते, तहियं पुण मग्गणा ताभा० ॥ ५॥ एतदन्तर्गतः पाठः कां. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org