________________
भाष्यगाथाः ५३८४-९१] चतुर्थ उद्देशः ।
१४३१ खेत्तविषजं अचंतिएसु जं लब्भति पुरिल्ले ।। ५३८८ ॥ आचार्येण पूर्यमाणेषु साधुषु व्यक्तस्यापि सहाया दातव्याः किं पुनः 'इतरस्य' अव्यक्तस्य ?, तस्य सुतरां दातव्या इति भावः । ते च सहाया द्विधा-आत्यन्तिका अनात्यन्तिकाश्च । आत्यन्तिका नाम--ये तेन सार्द्ध तत्रैवासितुकामाः, ये तु तं तत्र मुक्त्वा प्रतिनिवर्तिष्यन्ते ते अनात्यन्तिकाः । तत्रात्यन्तिकेषु सहायेषु यद् व्यक्तः 'क्षेत्रविवर्ज' परक्षेत्रं मुक्त्वा सचित्तादिकं 5 लभते तत् "पुरिल्ले" ति यस्याऽऽचार्यस्याभिमुखं व्रजति स पुरोवर्ती भण्यते, अभिधारित इत्यर्थः, तस्य सर्वमपि सचित्तादिकमाभवति । परक्षेत्रे तु लब्धं क्षेत्रिकस्यामाव्यम् ॥५३८८॥
जइ णेउं एतुमणा, जं ते मग्गिळं वत्ति पुरिमस्स। ..
नियमऽव्वत्त सहाया, णेतु णियत्तंति जं सो ये ॥ ५३८९ ॥ अथ ते सहायास्तं तत्र नीत्वा आगन्तुकामाः, अनात्यन्तिका इत्यर्थः, ततो यत् ते सहाया 10 लभन्ते तत् सर्वमपि "मग्गिल्ले" ति यस्य सकाशात् प्रस्थिताः तस्यात्मीयस्याचार्यस्याभवति । "वत्ति पुरिमस्स" ति यत् पुनः स व्यक्तः खयमुत्पादयति तत् 'पुरिमस्य' अभिधारितस्याभवति । यः पुनरव्यक्तस्तस्य नियमेनैव सहाया दीयन्ते, ते च सहाया यदि आत्यन्तिकातदा यद् असौ ते च लभन्ते तद् अभिधारितस्याभाव्यम् । अथ तं तत्र नीत्वा निवर्तन्ते ततो यद् असौ ते च परक्षेत्रं मुक्त्वा लभन्ते तत् सर्वं पूर्वाचार्यस्याभवति यावद् अद्याऽप्यसौ नार्पितो 15 भवति ।। ५३८९ ॥
वितियं अपहुच्चंते, न देज वा तस्स सो सहाए तु ।
वइगादिअपडिबझंतगस्स उवही विसुद्धो उ ॥ ५३९० ॥ द्वितीयपदमत्र भवति–अपूर्यमाणेषु साधुषु सहायान् साधून तस्याचार्यों न दद्यादपि । स चात्मना श्रुतेन वयसा च व्यक्तः, तस्य च ब्रजिकादावप्रतिबध्यमानस्योपधिविशुद्धो भवति, 20 नोपहन्यते । अथ व्रजिकादिषु प्रतिबध्यते तत उपधेरुपघातो भवेति ॥ ५३९० ॥
एगे तू वच्चंते, उग्गहवज्जं तु लभति सचित्तं ।
वच्चंत गिलाणे अंतरा तु तहिँ मग्गणा होइ ॥ ५३९१ ॥ __ यो व्यक्त एकाकी ब्रजति स यदि अन्यस्याचार्यस्य योऽवग्रहस्तद्वर्जितेऽनवग्रहक्षेत्रे यत् किञ्चिद् लभते तत् सचित्तमभिधार्यमाणस्याभवति । “वच्चंत" इत्यादि, योऽसौ ज्ञानार्थं व्रजति स द्वौ त्रीन् 25 वाऽऽचार्यान् कदाचिद् अभिधारयेत् 'तेषां मध्ये यो मे अभिरोचिष्यते तस्यान्तिके उपसम्पदं ग्रहीष्यामि' इति कृत्वा । स चान्तरा ग्लानो जातः, तैश्चाचार्यैः श्रुतम् , यथा-अस्मानमिधार्य साधुरागच्छन् पथि ग्लानो जात इति; तत्रेयमाभाव्या-ऽनाभाव्यमार्गणा भवति ॥५३९१॥
१°स्स । जे अवंत सहाया, तओ नियत्तंति ताभा० ॥ २ वा कां० । का० प्रती टीकाऽप्येतपाठानुसारेणैव, दृश्यतां टिप्पणी ३ ॥ ३ °न्ते, स्वगुरुसमीपे गन्तुकामा इत्यर्थः, ततो यद् असौ वाशब्दात् ते च कां•॥ ४ भवति । ततः परं यस्यार्पितस्तस्याभाव्यम् । परक्षेत्रे तु लन्धं सर्वत्र क्षेत्रिकस्येति ॥ ५३८९ ॥ अथवाऽत्रैव द्वितीयपदमाह-बितियं का॥ ५ वति ॥ ५३९० ॥ तस्य च सहायरहितस्य व्रजत आभाव्या-ऽनाभाव्यविधिमाह-एगे कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org