________________
5
१४३०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त ० प्रकृते सूत्रम् २०
यस्तेन शैक्ष आनीतः स परममेधावी, तस्य च गच्छे नास्ति कोडप्याचार्यपदयोग्यः, यच्च तस्य पूर्वगतं कालिकश्रुतं वा समस्ति तस्यापरो ग्रहीता न प्राप्यते, ततस्तयोर्व्यवच्छेदं ज्ञात्वा स्वयमेव तस्यात्मीयं दिग्बन्धं कुर्यात्, न 'तेषां' प्रागभिधारितानां पार्श्वे प्रेषयेत् || ५३८३ ॥ अथ पर्षद्वतो अपवादमाह
15
'असहायः' एकाकी स आचार्यस्ततः संविग्नमसंविग्नं वा सहायं गृह्णीयात् । शिष्या वा मन्दधर्माणो गुरूणां व्यापारं न वहन्ति ततो यं वा तं वा सहायं गृह्णानः पर्षद्वत्त्वमपि कुर्यात् । श्राद्धा वा मन्दधर्माणो न वस्त्र पात्रादि प्रयच्छन्ति ततो लब्धिसम्पन्नं शिष्यं यं वा तं वा परि10 गृह्णीयात् । दुर्भिक्षादिकं वा कालमध्वानं वा प्राप्य ये उपग्रहकारिणः शिष्यास्तान् सङ्गृह्णीयात् । एवं पर्षद्वत्त्वं कुर्वन् प्रतीच्छकस्य सचित्तादिकं तत्र प्रेषयेत्, पूर्वोक्तकारणे वा सञ्जाते खयमपि गृह्णीयात् ॥ ५३८४ ॥ अथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाह - कालगयं सोऊणं, असिवादी तत्थ अंतरा वा वि ।
-
परिसेल्लय पडिसेहं, सुद्धो अण्णं व विसमाणो ।। ५३८५ ।।
25
---
यमाचार्यमभिधार्य व्रजति तं कालगतं श्रुत्वा, यद्वा यत्र गन्तुकामस्तत्र अन्तरा वा अशिवादीनि श्रुत्वा पर्षद्वतः प्रतिषेधकस्य वा अन्यस्य वा पार्श्वे प्रविशन् शुद्धः ॥ ५३८५ ॥ एतद् अविशेषितमुक्तम् । अथात्रैवाऽऽभाव्या - ऽनाभाव्य विशेषं बिभणिपुराह— वतो वि यदुविहो, वत्तमवत्तस्स मग्गणा होति ।
वत्तम्मि खेत्तवजं, अव्वत्तें अणपिओ जाव ।। ५३८६ ॥
20
यः प्रतीच्छको व्रजति सोऽपि च द्विविधः - व्यक्तोऽव्यक्तश्च । तयोः सहायः किं दातव्यो ? नवा ? इति मार्गणा कर्तव्या । तत्र व्यक्तस्य यः सचित्तादिलाभः 'क्षेत्रवर्जं' परक्षेत्रं मुक्त्वा भवति स सर्वोऽप्यभिधारिताचार्यस्याभवति । यः पुनरव्यक्तः स सहायैर्यावदद्यापि तस्याचार्यस्यार्पितो न भवति तावत् परक्षेत्रं मुक्तत्वा यत् ते सहाया लभन्ते तत् पूर्वाचार्यस्यैवाभवति इति सङ्ग्रहगाथासमासार्थः ॥ ५३८६ ॥ अथैनामेव विवृणोति -
असहातो परिसिल्लत्तणं पि कुजा उ मंदधम्मेस् ।
पप व काल-ऽद्धाणे, सच्चित्तादी वि गेण्हेजा ।। ५३८४ ॥
Jain Education International
सुतअव्वत्तों अगीतो, वएण जो सोलसण्ह आरेणं ।
विवरीओ वत्तो, वत्तमवत्ते य चउभंगो ।। ५३८७ ॥
अव्यक्तो द्विधा - श्रुतेन वयसा च । तत्र श्रुतेनाव्यक्तोऽगीतार्थः, वयसाऽव्यक्तस्तु षोडशानां वर्षाणामर्वाग् वर्तमानः, तद्विपरीतो व्यक्त उच्यते । अत्र च व्यक्ता - ऽव्यक्ताभ्यां चतुर्भङ्गी भवति - श्रुतेनाप्यव्यक्तो वयसाऽप्यव्यक्तः १ श्रुतेनाव्यक्तो वयसा व्यक्तः २ श्रुतेन 30 व्यक्तो वयसाऽव्यक्तः ३ श्रुतेन व्यक्तो वयसाऽपि व्यक्तः ४ || ५३८७ ॥
अस्य च सहायाः किं दीयन्ते ! उत न दीयन्ते : इत्याह
वत्तस्स वि दायव्वा, पहुप्पमाणा सहाय किमु इयरे ।
१ इति नियुक्तिगा कां० ॥
For Private & Personal Use Only
www.jainelibrary.org