SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५३७४-८३] चतुर्थ उद्देशः । १४२९ घट्टण विचालणं ति य, पुच्छा विप्फालणेगट्ठा ॥ ५३७९ ॥ यः पुनरन्यमाचार्यमभिधार्य अप्रतिषेधकं वा पर्षद्वन्तं वाऽन्यं वा प्रविशति, तस्य पार्थे उपसम्पद्यत इत्यर्थः, तं यदि 'कुलादिगुरवः' कुलस्थविरा गणस्थविराः सङ्घस्थ विरा वा जानीयुस्ततो यत् तेनाचित्तं सचित्तं वा तस्याचार्यस्योपनीतं तत् तस्य सकाशाद् हृत्वा तौ 'द्वावपि' आचार्य-प्रतीच्छकौ स्थविरा उपालभन्ते-कस्मात् त्वया अयमात्मपाधैं स्थापितः ? कस्माद् वा त्वमन्यमभिधार्य अत्र स्थितः ?; एवम् 'उपालभ्य' तं प्रतीच्छकं घट्टयित्वा तत्' सचित्तादिकं सर्वमभिधारितस्याचार्यस्य 'ददति' प्रयच्छन्ति, तदन्तिके प्रेषयन्तीत्यर्थः । अथ घट्टयित्वेति कोऽर्थः ? इत्याह-घट्टनेति वा विचारणेति वा पृच्छेति वा विस्फालनेति वा एकार्थानि पदानि ॥ ५३७८ ॥ ५३७९ ॥ ततःघट्टेउं सच्चित्तं, एसा आरोवणा उ अविहीते ।। 10 वितियपदमसंविग्गे, जयणाएँ कयम्मि तो सुद्धो ॥ ५३८०॥ तं प्रतीच्छकं 'घट्टयित्वा' 'कमभिधार्य भवान् प्रस्थित आसीत् ?' इति पृष्ट्वा सचितादिक तस्याभिधारितस्य पार्श्वे स्थविराः प्रेषयन्तीति गम्यते । “एसा आरोवणा उ अविहीए" त्ति या पूर्व प्रतिषेधकत्वं पर्षन्मीलनं वा कुर्वत आरोपणा भणिता सा अविधिनिष्पन्ना मन्तव्या । विधिना तु कारणे कुर्वाणस्य न प्रायश्चित्तम् , तथा चाह-"बिइयपय" इत्यादि, यमसाव-15 भिधारयति स आचार्योऽसंविमस्ततो द्वितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् । का पुनर्यतना ? इति चेद् उच्यते-प्रथमं साधुभिस्तं भाणयति-मा तत्र व्रज । पश्चादात्मनाऽपि भणेत् , पूर्वोक्तेन वा शिष्यादिव्यापारणप्रयोगेण वारयेत् । एवं यतनया प्रतिषेधकत्वे कृतेऽपि 'शुद्धः' निर्दोषः ॥ ५३८० ॥ अमुमेवार्थमाह- अभिधारेतो पासत्थमादिणो तं च जति सुतं अत्थि। 20 जे अ पडिसेहदोसा, ते कुव्यतो वि णिदोसो ॥ ५३८१ ॥ यान् अभिधारयन्नसौ व्रजति ते आचार्याः पार्श्वस्थादिदोषदुष्टाः, यच्च श्रुतमसावभिलषति तद् यदि तस्य प्रतिषेधकस्यास्ति, ततो ये प्रतिषेधकत्वं कुर्वतः 'दोषाः' शिष्यव्यापारणादयस्तान् कुर्वन्नपि निर्दोषस्तदा मन्तव्यः ।। ५३८१ ॥ जं पुण सञ्चित्ताती, तं तेसिं देति ण वि सयं गेण्हे । 25 बितियऽच्चित्त ण पेसे, जावइयं वा असंथरणे ॥ ५३८२ ॥ यत् पुनः सचित्तादिकं प्रतीच्छकेनागच्छता लब्धं तत् 'तेषाम्' अभिधारिताचार्याणां ददाति न पुनः खयं गृह्णाति । द्वितीयपदे यद् वस्त्रादिकमचित्तं तद् अशिवादिभिः कारणैः स्वयमलभमानो न प्रेषयेदपि । अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेषयेत् । असं. स्तरणे वा सर्वमपि गृह्णीयात् । सचित्तमप्यमुना कारणेन न प्रेषयेत् ॥ ५३८२ ॥ 30 नाऊण य वोच्छेयं, पुव्वगए कालियाणुओगे य ।। सयमेव दिसाबंधं, करेज तेसिं न पेसेजा ॥ ५३८३ ॥ १ सर्वमपि यः पूर्वमभिधारितस्तस्याचा भा० कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy