________________
भाष्यगाथाः ५३६५-७३ ]
चतुर्थ उद्देशः ।
प्राप्नोति इति प्रक्रमः || ५३६९ ॥ व्रजिका - सङ्खडीद्वारद्वयमाहउत्तणमपत्ते, लहुओ खद्धस्स भुंजणे लहुगा ।
सुवर्णे लहुओ, संखडि गुरुगा य जं चऽण्णं ।। ५३७० ॥
जिकां श्रुखा मार्गादुद्वर्तनं करोति अप्राप्तां वा वेलां प्रतीक्षते लघुमासः । अथ खद्धंप्रभूतं तत्र भुङ्क्ते ततश्चतुर्लघु । प्रचुरं भुक्त्वा अजीर्णभयेन 'निसृष्टं' प्रकामं स्वपिति लघुमासः । 5 सङ्खड्यामप्राप्तकालं प्रतीक्षमाणस्य प्रभूतं गृह्णतो वा चतुर्गुरुकाः । "जं चन्नं" ति यच्च हस्तेन हस्तसङ्घट्टनं पादेन पादस्याक्रमणं शीर्षेण शीर्षस्याकुट्टनमित्यादिकमन्यदपि सङ्खड्यां भवति तन्निष्पन्नं प्रायश्चित्तम् || ५३७० || अथ प्रतिषेधकद्वारमाह
अमुत्थ अमुगों वच्चति, मेहावी तस्स कड्डूणड्डाए । पंथ ग्गामे व पहे, वसधीय व कोइ वावारे ।। ५३७१ ॥ अभिलावसुद्ध पुच्छा, रोलेणं मा हु भे विणासेजा । इति ते लगा, जति सेहट्ठा ततो गुरुगा ।। ५३७२ ।।
कश्चिदाचार्यो विशुद्धसूत्रार्थः स्फुटविकटव्यञ्जनाभिलापी, तेन च श्रुतम् - अमुकाचार्यान्तिकेऽमुको मेधावी साधुरमुकश्रुताध्ययनार्थं व्रजति । ततोऽसौ ' मा मामतिक्रम्यान्यत्र गमद्' इति कृत्वा तस्याकर्षणार्थम् ' अथ' अनन्तरं शिष्यान् प्रतीच्छकांश्च व्यापारयति । क? 15 इत्याह – “पंथ ग्गामे व पहे" त्ति यत्र पथि ग्रामे स भिक्षां करिष्यति, मध्येन वा समेष्यति, येन वा पथा समागमिष्यति, यस्यां वा वसतौ स्थास्यति तेषु स्थानेषु गत्वा यूयमभिलापशुद्धं परिवर्तयन्तस्तिष्ठत । यदा स आगतो भवति तदा यदि असौ पृच्छेत् — केन कारणेन यूयमिहागताः ?; ततो भवद्भिर्वक्तव्यम् - अस्माकं वाचनाचार्या अभिलापशुद्धं पाठयन्ति, यदि अभिलापः कथञ्चिदन्यथा क्रियते ततो महदप्रीतिकं ते कुर्वन्ति, भणन्ति च - अत्रोपाश्रये बहूनां रोले - 20 नाभिलापं “भे” यूयं मा विनाशयतेति, ततस्तदादेशेन वयमत्र विजने परिवर्तयामः । एवमाकर्षणं कुर्वतश्चतुर्लघुकाः । अथ तेन आगच्छता शैक्षः कोऽपि लब्धः तदर्थम् - 'एष शैक्षो मे भूयाद्' इति कृत्वा आकर्षति ततश्चतुर्गुरुकाः || ५३७१ ॥ ५३७२ ॥
• एवं बहिरावर्ण्य किं करोति ? अत आह—
१°ध्यति, वाशब्दाद् यस्य ग्रामस्य मध्येन कां० ॥ एव वर्तते ॥
१४२७
--
Jain Education International
अक्खर - वंजणसुद्धं, मं पुच्छह तम्मि आगए संते ।
घोसेहि य परिसुद्धं, पुच्छह णिउणे य सुत्तत्थे ॥ ५३७३ ॥
स आचार्यः शिष्यान् प्रतीच्छकान् वा भणति यदा युष्माकमभिलापशुद्धगुणनया रञ्जितः स उपाश्रयमागच्छति तदा तस्मिन्नागते अक्षर-व्यञ्जनशुद्धं सूत्रं मां पृच्छत । अक्षराणि प्रती - तानि, व्यञ्जनशब्देन अर्थाभिव्यञ्जकत्वाद् अत्र पदमुच्यते । तैरक्षरैर्व्यञ्जनैश्च शुद्धं तथा 'घोषैश्च' उदात्तादिभिः परिशुद्धं सूत्रं पठनीयम्, निपुणश्च सूत्रार्थान् मां तदानीं पृच्छत । 30 एवमनया भन्या तमन्यत्र गच्छे गच्छन्तं प्रतिषेधयति ॥ ५३७३ ॥
२१
एतचिहान्तर्गतमवतरणं फ
For Private & Personal Use Only
10
25
www.jainelibrary.org