SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १४२६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ गणान्त प्रकृते सूत्रम् २० विए य" त्ति तत्र सम्प्राप्तो ब्रवीति-अहमाचार्यैः श्रुताध्ययननिमित्तं युष्मदन्तिके प्रेषितः ८॥ एतेषु भीतादिष्वष्टस्खपि पदेषु वक्ष्यमाणनीत्या प्रायश्चित्तम् । यस्तु भीतादिदोषविप्रमुक्तः समागतो ब्रवीति-'अहह्माचार्यविसर्जितो युष्मदन्तिके समायातः' इति सः 'शुद्धः' न प्राय. श्चित्तभाक् ।। ५३६३ ॥ ५३६४ ॥ भीतादिपदेषु प्रायश्चित्तमाह पणगं च भिण्णमासो, मासो लहुगो य संखडी गुरुगा। पिसुमादी मासलह, चउरो लहुगा अपडिसेहे ॥ ५३६५ ॥ परिसिल्ले चउलहुगा, गुरुपेसवियम्मि मासियं लहुगं । सेहेण समं गुरुगा, परिसिल्ले पविसमाणस्स ॥ ५३६६ ॥ पंडिसेहगस्स लहुगा, परिसेल्ले छ च चरिमओ सुद्धो । तेसि पि होति गुरुगा, जं चाऽऽभव्यं ण तं लभती ॥ ५३६७॥ भीतस्य निवर्तमानस्य पञ्चकम् । चिन्तयतो भिन्नमासः । ब्रजिकादिषु प्रतिबध्यमानस्य मासलघु । सङ्खड्यां चतुर्गुरुकाः । पिशुकादिभयान्निवर्तमानस्य मासलघु । अप्रतिषेधकस्य पार्थे तिष्ठतश्चत्वारो लघुकाः ॥ ५३६५ ॥ ___ पर्षद्वत आचार्यस्य सकाशे तिष्ठतश्चतुर्लघुकाः । 'गुरुभिः प्रेषितोऽहम्' इति भणने लघुमा15 सिकम् । शैक्षेण समं पर्षद्वतो गच्छे प्रविशतश्चतुर्गुरुकाः । गृहीतोपकरणस्य तत्र प्रविशत उपधिनिष्पन्नम् ॥ ५३६६ ॥ 'प्रतिषेधकस्य' प्रतिषेधकत्वं कुर्वतश्चतुर्लघु । पर्षदं मीलयतः षड् लघुकाः । 'चरमः' भीतादिदोषरहितः स शुद्धः । तेषामपि प्रतिषेधकादीनामाचार्याणां तं वगच्छे प्रवेशयतां चत्वारो गुरुकाः । यच्च सचित्तमचित्तं वा वाचनाचार्यस्याभाव्यं तत् ते किञ्चिदपि न लभन्ते, 20 यः पूर्वमभिधारितस्तस्यैवाचार्यस्य तदाभाव्यमिति भावः ॥ ५३६७ ॥' अथ भीतादिपदानां क्रमेण व्याख्यानमाह संसाहगस्स सोउं, पडिपंथिगमादिगस्स वा भीओ। आयरणा तत्थ खरा, सयं व गाउं पडिणियत्तो ॥ ५३६८॥ संसाधको नाम वोलापकः पृष्ठतः कुतश्चिदागतो वा साधुस्तन्मुखेन श्रुत्वा, प्रतिपन्थिकः25 सम्मुखीनः साध्वादिस्तदादेर्वा मुखात् श्रुत्वा, खयं वा 'ज्ञात्वा' स्मृत्वा । किम् ? इत्याह'आचरणा' चर्या 'तत्र' तस्याचार्यस्य गच्छे 'खरा' कर्कशा । एवं श्रुत्वा ज्ञात्वा वा मीतः सन् यः प्रतिनिवृत्तस्तस्य पञ्चकं भवतीति शेषः ॥ ५३६८ ॥ अथ चिन्तयन्निति पदं व्याचष्टे पुव्वं चिंतेयव्वं, णिग्गतों चिंतेति किं णु हु करेमि । ___ वच्चामि नियत्तामि व, तहिं व अण्णत्थ वा गच्छे ॥ ५३६९ ॥ 30 'पूर्वमेव' यावन्न निर्गम्यते तावञ्चिन्तयितव्यम् । यस्तु निर्गतश्चिन्तयति-किं करोमि ? व्रजामि निवर्ते वा ?, यद्वा तत्र वाऽन्यत्र वा गच्छे गच्छामि ? इति; स मासलघु प्रायश्चित्तं १यं गुरुयं ताभा० ॥ २ अप्पडिसेधे लहुगा ताभा० ॥ ३ एतदनन्तरम् ग्रन्थानम्-३००० इति का ० ॥ ४ °ञ्चकं प्रायश्चित्तमिति प्रक्रमः॥५३६८ ॥ व्याख्यातं भीतपदम् । अथ को० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy