________________
भाष्यगाथाः ५३६१-६४] चतुर्थ उद्देशः।
१४२५ भवेत् , अथवा 'गणी' आचार्य उपाध्यायो वा तस्य गच्छे सूत्रा-ऽर्थ-तदुभयस्मिन् 'च्युते' विस्मृते सति गच्छान्तरे सङ्क्रमणं भवेत् , अतस्तद्विधिरनेनाभिधीयते । एष सूत्रसम्बन्धः ॥ ५३६२ ॥ __ अनेन सम्बन्धेनायातस्यास्य व्याख्या -'भिक्षुः' सामान्यसाधुः चशब्दाद् निर्ग्रन्थी च गणाद् 'अवक्रम्य' निर्गत्य 'इच्छेत्' अभिलषेद् अन्य गणमुपसम्पद्य विहर्तुम् । नो "से" तस्य भिक्षोः कल्पतेऽनापृच्छयाऽऽचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणधरं । वा गणावच्छेदकं वा अन्यं गणमुपसम्पद्य विहर्तुम् । कल्पते "से" तस्य भिक्षोराचार्य वा यावत्करणाद् उपाध्यायं वा प्रवर्तिनं वा स्थविरं वा गणिनं वा गणधरं वा गणावच्छेदकं वाऽऽपृच्छयान्यं गणमुपसम्पद्य विहर्तुम् । 'ते च' आचार्यादय आपृष्टाः सन्तस्तस्यान्यगणगमनं 'वितरेयुः' अनुजानीयुः तत एवं तस्य कल्पते अन्यं गणमुपसम्पद्य विहर्तुम् । ते च तस्य न वितरेयुः ततो नो कल्पते तस्यान्यं गणमुपसम्पद्य विहर्तुमिति सूत्रार्थः ।। अथ नियुक्तिविस्तरः--10
तिहाणे अवकमणं, णाणट्ठा दंसणे चरित्तहा।
आपुच्छिऊण गमणं, भीतो त नियत्तते कोती १॥ ५३६३ ॥ चिंतंतो २ वइगादी ३, संखडि ४ पिसुगादि ५ अपडिसेहे य ६।
परिसिल्ले सत्तमए ७, गुरुपेसविए य ८ सुद्धे य ॥ ५३६४ ॥ स्थानं कारणमित्येकोऽर्थः, ततस्त्रिभिः स्थानः-कारणैर्गच्छाद् अपक्रमणं भवति-ज्ञानार्थ 15 दर्शनार्थ चारित्रार्थं च । अथ निष्कारणमन्यं गणमुपसम्पद्यते ततश्चतुर्गुरुकं आज्ञादयश्च दोषाः । कारणेऽपि यदि गुरुमनापृच्छय गच्छति ततश्चतुर्गुरुकम् , तस्माद् आपृच्छय गन्तव्यम् । तत्र ज्ञानार्थ तावद् अभिधीयते-यावद् आचार्यसकाशे श्रुतमस्ति तावद् अशेषमपि केनापि शिष्येणाधीतम् , अस्ति च तस्यापरस्यापि श्रुतस्य ग्रहणे शक्तिस्ततोऽधिकश्रुतग्रहणार्थमाचार्यमापृच्छति । आचार्येणापि स विसर्जयितव्यः । तस्यैवमापृच्छय गच्छत इमेऽतिचारा 20 भवन्ति ते परिहर्तव्याः । तत्र कश्चित् तेषामाचार्याणां कर्कशचर्यां श्रुत्वा भीतः सन् निवर्तते १॥ __ तथा 'किं व्रजामि ? मा वा ?' इति चिन्तयन् व्रजति २ । जिकायां वा प्रतिबन्धं करोति, आदिशब्दाद् दानश्राद्धादिषु दीर्घा गोचरचर्यां करोति, अप्राप्तं वा देशकालं प्रतीक्षते ३ । "संखडि" ति सङ्खड्यां प्रतिबध्यते ४ । “पिसुगाइ" त्ति पिशुक-मत्कुणादिभयाद् निवर्तते अन्यत्र वा गच्छे गच्छति ५ । "अप्पडिसेह" ति कश्चिदाचार्यस्तं परममेधाविनमन्यत्र 25 गच्छन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किन्तु शिष्यान् व्यापारयति-तस्मिन्नागते व्यञ्जन-घोषशुद्धं पठनीयम् येनात्रैवैष तिष्ठति; एवमप्रतिषेधयन्नपि प्रतिषेधको लभ्यते, तेनैवं विपरिणामितः सन् तदीये गच्छे प्रविशति ६ । “परिसिल्ले ति पर्षद्वान् स उच्यते यः संविज्ञाया असंविज्ञायाश्च पर्षदः सङ्ग्रहं करोति, तस्य पार्थे तिष्ठतः सप्तमं पदम् । “गुरुपेस
१°त्, यथा पार्श्वनाथतीर्थाद् वर्धमानस्वामितीर्थ सङ्क्रामतः, अथवा का० ॥ २ °त्, उपलक्षणमिदम् , तेन भिक्षोरपूर्वसूत्रार्थग्रहणहेतुकमपि गणान्तरसङ्क्रमणं भवेत् ; अत° कां० ॥ ३ °स्य सूत्रनवकस्य मध्यात् प्रथमसूत्रस्य तावद् व्याख्या कां० ॥ ४ °मणं, चिंतेइ य निग्गतो कोयी ॥ ५३६३ ॥ भीओ १ चिंतेंतो २ वई तामा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org