________________
१४२२ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [कल्प०प्रकृते सूत्रम् १९
‘एवमेव' नटप्रेक्षणोक्तेनैव प्रकारेण पूर्वतीर्थकरसाधुर्यदि एकैकमुद्गमादिदोष निवार्यते ततो यमेवाधाकर्मादिकं दोष निवारितस्तमेव वर्जयति 'इतरांस्तु' पूतिकर्म-क्रीतकृतादीन् गृह्णाति, न वर्जयतीत्यर्थः । यदा तु 'सर्वेऽपि' उद्गमदोषा न कल्पन्ते इति वारितो भवति तदा सर्वानपि यावज्जीवं वर्जयति ॥ ५३५३ ॥ अथ संज्ञातकागमनपदं व्याचष्टे
सण्णायगा वि उज्जुत्तणेण कस्स कत तुज्झमेयं ति ।
मम उद्दिट्ट ण कप्पड़, कीतं अण्णस्स वा पगरे ॥ ५३५४ ॥ प्रथमतीर्थकरतीथे यदा साधुः संज्ञातककुलं गच्छति तदा ते संज्ञातकाः किश्चिदाधाकर्मादिकं कृत्वा साधुना 'कस्यार्थाय युष्माभिरिदं कृतम् ?' इति पृष्टाः सन्त ऋजुत्वेन कथयन्तियुष्मदर्थमेतद् इति । ततः साधुर्भणति-ममोद्दिष्टभक्तं न कल्पते । एवमुक्तः स गृही कीत10 कृतं अन्यद्वा दोषजातं कृत्वा दद्यात् , 'उद्दिष्टमेवामुना प्रतिषिद्धं न क्रीतादिकम्' इति बुद्ध्या ।
अथवाऽन्यस्य साधोरायाधाकर्म प्रकुर्यात् , 'ममोद्दिष्टं न कल्पते इति भणता तेनात्मन एवाधाकर्म प्रतिषिद्धम् नान्येषाम्' इति बुद्ध्या ॥ ५३५४ ॥
सव्वजईण निसिद्धा, मा अणुमण्ण त्ति उग्गमा णे सिं ।
इति कधिते पुरिमाणं, सव्वे सव्वेसि ण करेंति ॥५३५५ ।। 15 यदा तु तेषां गृहिणामग्रेऽभिधीयते-सर्वेऽप्युद्गमदोषाः सर्वेषां यतीनां निषिद्धाः' न
कल्पन्ते, मा भूद् “णे" अस्माकं "सिं" ति तेषां दोषाणां अनुमतिदोष इति कृत्वा । तत एवं कथिते सति ते गृहिणः सर्वेषामपि साधूनां सर्वानप्युद्गमदोषान् न कुर्वन्ति । एवं पूर्वेषां तीर्थे ये दानश्राद्धादय उद्गमदोषकारिणस्तेऽपि ऋजु-जडा इति भावः ॥ ५३५५ ॥ अथ ऋजु-जडपदव्याख्यानमाह
उज्जत्तणं से आलोयणाएँ जड्डत्तणं से जं भुजो।
तजातिए ण याणति, गिही वि अन्नस्स अन्नं वा ॥५३५६ ॥ ऋजुत्वं "से" 'तस्य' प्रथमतीर्थकरसाधोरेवं मन्तव्यम्-यद् एकान्तेऽप्यकृत्यं कृत्वा गुरूणामवश्यमालोचयति । यत् पुनर्भूयस्तज्जातीयान् दोषान् न जानाति न च वर्जयति तेन तस्य जडत्वं द्रष्टव्यम् । गृहिणोऽपि यद् एकस्य निवारितं तद् अन्यस्य निमित्तं कुर्वन्ति 'अन्यं 25 वा' क्रीतकृतादिकं दोषं कुर्वन्ति एतत् तेषां जडत्वम् । यत् तु पृष्टाः सन्तः परिस्फुटं सद्भावं कथयन्ति एतत् तेषां ऋजुत्वम् ॥ ५३५६ ॥ अथ मध्यमानामृजु-प्रज्ञतां भावयति
उजुत्तणं से आलोयणाएँ पण्णा उ सेसवजणया।
सण्णायगा वि दोसे, ण करेंतऽण्णे ण यऽण्णेसि ॥ ५३५७ ॥ 'रहस्यपि यत् प्रतिसेवितं तद् अवश्यमालोचयितव्यम्' इत्यालोचनया मध्यमतीर्थकरसाधू30 नामृजुत्वं मन्तव्यम् , यत् पुनः शेषाणां-तज्जातीयानामर्थानां स्वयमभ्यूह्य ते वर्जनां कुर्वन्ति ततः _प्रज्ञा तेषां प्रतिपत्तव्या । ते हि 'नटावलोकनं कर्तुं न कल्पते' इत्युक्ताः प्राज्ञतया खचेतसि परिभावयन्ति-यथा एतद् नटावलोकनं 'राग-द्वेषनिबन्धनम्' इति कृत्वा परिहियते तथा कयोक-नर्तक्यादिदर्शनमपि रागद्वेषनिबन्धनतया परिहर्तव्यमेव इति विचिन्त्य तथैव कुर्वन्ति ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org