SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उद्देशः । उवस्सग गणिय - विभाइय, उज्जुग-जड्डा य वंक-जड्डा य । मज्झिमग उज्ज -पण्णा, पेच्छा सण्णायगाऽऽगमणं ॥ ५३५१ ॥ अथोपाश्रयेषु साधून् गणित - विभाजितान् करोति । गणिता नाम- इयतां पञ्चादिसङ्ख्या कानां दातव्यम्, विभाजिता नाम - 'अमुकस्यामुकस्य' इति नामोत्कीर्तनेन निर्द्धारिताः । अत्र चतुभङ्गी - गणिता अपि विभाजिता अपि १ गणिता न विभाजिताः २ विभाजिता न गणिता: 5 ३ न गणिता न विभाजिताः ४ । अत्र प्रथमभङ्गे मध्यमानां गणित-विभाजितानामेवाकल्प्यम्, शेषाणां कल्पते । द्वितीयभङ्गे यावद् गणितप्रमाणैर्न गृहीतं तावत् सर्वेषामकल्प्यम्, गणितप्रमाणैर्गृहीते मध्यमानी शेषाणां कल्प्यम् । तृतीयभङ्गे यावन्तः सदृशनामा - नस्तेषां सर्वेषामकल्प्यम्, शेषाणां कल्प्यम् । चतुर्थभङ्गे सर्वेषामकल्प्यम् । पूर्व-पश्चिमानां तु सर्वेष्वपि भङ्गेषु न कल्पते । परः प्राह - ननु सर्वेषां सर्वज्ञानां सदृश एव हितोपदेशस्ततः 10 कथं पञ्चयामिकानां चतुर्यामिकानां च विसदृशः कल्प्या-ऽकल्प्य विधिः ? अत्रोच्यते - कालानुभावेन विनेयानामपरापरं तथातथास्वभावपरिणामं विमलकेवलचक्षुषा विलोक्य तीर्थकृद्भिरिस्थं कल्प्या - sकल्प्य विधिवैचित्र्यमकारि । तथा चाह -- " उज्जुग-जड्डा य" इति, पूर्व साधवः ऋजु-जडाः पश्चिमसाधवो वक्र-जडा मध्यमा ऋजु -प्राज्ञाः । एतेषां च त्रिविधानामपि साधूनां प्रेक्षाष्टान्तेन प्ररूपणा कर्तव्या । त्रिविधानामेव च साधूनां सज्ञातककुलमागतानां गृहिण 15 उद्गमादिदोषान् कुर्युः तत्रापि त्रिधा निदर्शनं कर्तव्यम् ॥ ५३५१ ॥ तत्र नटप्रेक्षणकदृष्टान्तं तावदाह भाष्यगाथाः ५३४७-५३ ] १४२१ नडपेच्छं दहूणं, अवस्स आलोयणा ण सा कप्पे । कउयादी सो पेच्छति, ण ते वि पुरिमाण तो सव्वे ॥ ५३५२ ।। कश्चित् प्रथमतीर्थकर साधुर्भिक्षां पर्यटन् नटस्य 'प्रेक्षां' प्रेक्षणकं दृष्ट्वा कियन्तमपि कालमव - 20 लोक्य समागतः, स च ऋजुत्वेनावश्यमाचार्याणामालोचयति, यथा - नटो नृत्यन् मया विलो - कितः । आचार्यैरुक्तम् —'सा' नटावलोकना साधूनां कर्तुं न कल्पते । ततः 'यथाऽऽदिशन्ति भगवन्तस्तथैव' इत्यभिधाय भूयोऽपि भिक्षामटन् कैयोकादिकमसौ प्रेक्षते । कयोको नामवेषपरावर्तकारी नटविशेषः । आदिशब्दाद् नर्तकीप्रभृतिपरिग्रहः । ततस्तथैवालोचिते गुरवो भणन्ति - ननु पूर्वं वारितस्त्वमासीः । स प्राह - नट एव द्रष्टुं वारितो न कयोकः, एष च 25 मया कयोको दृष्टः । एवं यावन्मात्रं परिस्फुटेन वचसा वार्यन्ते तावन्मात्रमेवैते वर्जयन्ति, न पुनः सामर्थोक्तमपरस्य तादृशस्य प्रतिषेधं प्रतिपद्यन्ते । यदा तु भण्यते "न ते वि" चि 'तेऽपि' कयोकादयो न कल्पन्ते द्रष्टुं तदा सर्वानपि परिहरन्ति, अतः पूर्वेषां साधूनां सर्वेऽपि नटादयो न कल्पन्ते द्रष्टुमिति प्रथममेवोपदेष्टव्यम् ॥ ५३५२ ॥ एमेव उगमादी, एकेक निवारि एतरे गिण्हे | सव्वेविण कप्पंति, त्ति वारितो जज्जियं वजे ॥ ५३५३ ।। १ नां गणित-विभाजितानामेवाकल्यम् । तृतीय कां० ॥ २ कां० प्रतौ 'कयोक' स्थाने सर्वत्रापि 'कायाक' इति पाठो वर्तते ॥ For Private & Personal Use Only Jain Education International 30 www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy