________________
१४२३
15
भाष्यगाथाः ५३५४-६०] चतुर्थ उद्देशः । संज्ञातका अपि तेषाम् इदमुद्दिष्टभक्तं मम न कल्पते' इत्युक्ताश्चिन्तयन्ति-यथैतस्यायं दोषोऽकल्पनीयस्तथाऽन्येऽपि तज्जातीयाः सर्वेऽप्यकल्पनीयाः, यथा चैतस्य ते अकल्पनीयास्तथा सर्वेषामपि साधूनां न कल्पन्ते । एवं विचिन्त्य 'अन्यान्' उद्गमदोषान् न कुर्वन्ति, अन्येषां च साधूनां हेतोर्न कुर्वन्ति ॥ ५३५७ ॥ अथ वक्र-जडव्याख्यानमाह
वंका उ ण साहंती, पुट्ठा उ भणति उण्ह-कंटादी।
पाहुणग सद्ध ऊसव, गिहिणो वि य वाउलंतेवं ॥ ५३५८॥ पश्चिमतीर्थकरसाधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि 'न कथयन्ति' नालोचयन्ति, जडतया च जानन्तोऽजानन्तो वा भूयस्तथैवापराधपदे प्रवर्तन्ते । नटावलोकनं कुर्वाणाश्च दृष्टास्ततो गुरुभिः पृष्टाः-किमियती वेलां स्थिताः । ततो भणन्ति-उष्णेनाभितापिता वृक्षादिच्छायायां विश्राम गृहीतवन्तः, कण्टको वा लग्न आसीत् स तत्र स्थितैरपनीतः, आदि-10 शब्दाद् अन्यदप्येवंविधमुत्तरं कुर्वन्तीति । गृहिणोऽपि आधाकर्मादौ कृते पृष्टा भणन्तिप्राघुणका आगतास्तदर्थमिदमुपस्कृतम् , अस्माकं वा ईदृशे शाल्योदनादौ भक्तेऽद्य श्रद्धा समजनि, उत्सवो वा अद्यामुकोऽस्माकम् । एवं गृहिणोऽपि वक्र-जडतया साधून 'व्याकुलयन्ति' व्यामोहयन्ति, सद्भावं नाख्यान्तीत्यर्थः । एतेन कारणेन चातुर्यामिक-पञ्चयामिकानामाधाकर्मग्रहणे विशेषः कृत इति प्रक्रमः ।। ५३५८ ॥ अथ द्वितीयपदमाह
आयरिए अभिसेगे, भिक्खुम्मि गिलाणए य भयणा उ ।
तिक्खुत्तऽडवि पवेसे, चउपरियट्टे तओ गहणं ॥ ५३५९ ॥ आचार्या-अभिषेक-भिक्षूणामेकतरः सर्वे वा ग्लाना भवेयुः तत्र सर्वेषामपि योग्यमुद्गमादिदोषशुद्धं ग्रहीतव्यम् । अलभ्यमाने पञ्चकपरिहाण्या यतित्वा चतुर्गुरुकं यदा प्राप्तं भवति तदाऽऽधाकर्मणः 'भजना' सेवना भवति । अथवा भजना नाम-आचार्यस्याभिषेकस्य गीतार्थ-30 भिक्षोश्च येन दोषेणाशुद्धमानीतं तत् परिस्फुटमेव कथ्यते । यः पुनरगीतार्थोऽपरिणामको वा तस्य न निवेद्यते । अशिवादिभिर्वा कारणैरटवीम्-अध्वानं प्रवेष्टुमभिलषन्ति तत्र प्रथममेव शुद्धोऽध्वकल्पः 'त्रिकृत्वः' त्रीन् वारान् गवेष्यते, यदा न लभ्यते तदा चतुर्थे परिवर्ते पञ्चकपरिहाया आधाकर्मिकस्य ग्रहणं करोति ॥ ५३५९ ॥ अध्वनिर्गतानां चायं विधिःचउरो चउत्थभत्ते, आयंबिल एगठाण पुरिम8 ।
25 णिव्वीयग दायव्वं, सयं च पुवोग्गहं कुजा॥ ५३६०॥ आचार्यः खयमेव चतुःकल्याणकं प्रायश्चित्तं गृह्णाति, तत्र चत्वारि चतुर्थभक्तानि चत्वार्याचाम्लानि चत्वारि 'एकस्थानानि' एकाशनकानीत्यर्थः चत्वारि पूर्वार्द्धानि चत्वारि निर्वृतिकानि (निर्विकृतिकानि ) च, भवन्ति । ततः शेषा अप्यपरिणामकप्रत्ययनिमित्तं चतुःकल्याणक प्रतिपद्यन्ते । योऽपरिणामकस्तस्य पञ्चकल्याणकं दातव्यम्, तत्र चतुर्थभक्तादीनि प्रत्येकं 30 पञ्च पञ्च भवन्ति । खयं चाचार्यः पूर्वमेव प्रायश्चित्तस्यावग्रहणं कुर्याद् येन शेषाः सुखेनैव
१ षष्ठी-सप्तम्योरर्थ प्रत्यमेदाद् आचा' का० ॥२°ण्या चतुर्गुरुकं प्राप्तः सन् आधा कां०॥ ३ ता-ऽऽचाम्लादीनि पूर्वोक्तानि पञ्च स्थानानि भवन्ति कां० ॥ ४ °न शैक्षाः सु. कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org