________________
IU
१४१८ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ कल्प०प्रकृते सूत्रम् १९
अनेन सम्बन्धेनायातस्यास्य व्याख्या--'यद्' अशनादिकं 'कृतं' विहितं कल्पस्थितानामर्थाय कल्पते तद् अकल्पस्थितानाम् , नो तत् कल्पते कल्पस्थितानाम् । इहाचेलक्यादौ दशविधे कल्पे ये स्थितास्ते कल्पस्थिता उच्यन्ते, पञ्चयामधर्मप्रतिपन्ना इति भावः । ये पुनरेतस्मिन् कल्पे सम्पूर्णे न स्थितास्ते अकल्पस्थिताः, चतुर्यामधर्मप्रतिपत्तार इत्यर्थः । ततः पञ्चयामिकानुद्दिश्य bकृतं चातुर्यामिकानां कल्पत इत्युक्तं भवति । तथा यद् 'अकल्पस्थितानां' चातुर्यामिकानामर्थाय कृतं नो तत् कल्पते 'कल्पस्थितानां' पञ्चयामिकानां किन्तु कल्पते तद् 'अकल्पस्थितानां चतुर्यामिकानाम् । अत्रैव व्युत्पत्तिमाह-'कल्पे' आचेलक्यादौ दशविधे स्थिताः कल्पस्थिताः । 'अकल्पे' अस्थितकल्परूपे स्थिता अकल्पस्थिताः । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
कप्पठिइपरूवणता, पंचेव महव्वया चउज्जामा ।
कप्पट्टियाण पणगं, अकप्प चउजाम सेहे य ॥ ५३४०॥ कल्पस्थितेः प्रथमतः प्ररूपणा कर्तव्या । तद्यथा--पूर्व-पश्चिमसाधूनां कल्पस्थितिः पञ्चमहाव्रतरूपा, मध्यमसाधूनां महाविदेहसाधूनां च कल्पस्थितिश्चतुर्यामलक्षणा । ततो ये कल्य. स्थितास्तेषां "पणगं" ति पञ्चैव महाव्रतानि भवन्ति । अकल्पस्थितानां तु 'चत्वारो यामाः'
चत्वारि महाव्रतानि भवन्ति, 'नापरिगृहीता स्त्री भुज्यते' इति कृत्वा चतुर्थव्रतं परिग्रहव्रत 16 एव तेषामन्तर्भवतीति भावः । यश्च पूर्व-पश्चिमतीर्थकरसाधूनामपि सम्बन्धी शैक्षः सोऽपि सामायिकसंयत इति कृत्वा चतुर्यामिकोऽकल्पस्थितश्च मन्तव्यः, यदा पुनरुपस्थापितो भविष्यति तदा कल्पस्थित इति ॥ ५३४० ॥ प्ररूपिता कल्पस्थितिः । इह "जे कडे कप्पट्टियाणं" इत्यादिनाऽऽधाकर्म सूचितम् अतस्तस्योत्पत्तिमाह
साली घय गुल गोरस, णवेसु वल्लीफलेसु जातेसु । [पि.नि.१८०] 20 पुण्णट्ट करण सड्ढा, आहाकम्मे णिमंतणता ॥ ५३४१ ॥
कस्यापि दानरुचेरभिगमश्राद्धस्य वा नवः शालिqयान् गृहे समायातस्ततः स चिन्तयति'पूर्वं यतीनामदत्त्वा ममात्मना परिभोक्तुं न युक्तः' इति परिभाव्याऽऽधाकर्म कुर्यात् । एवं घृते गुडे गोरसे नवेषु वा तुम्ब्यादिवल्लीफलेषु जातेषु पुण्यार्थ दानरुचिः श्राद्धः “करणं" ति आधाकर्म कृत्वा साधूनां निमन्त्रणं कुर्यात् ॥ ४३४१ ॥ 25 तस्य चाधाकर्मणोऽमून्येकार्थिकपदानि
आहा अहे य कम्मे, आताहम्मे य अत्तकम्मे य । [पि.नि.९५]
तं पुण आहाकम्मं, णायव्वं कप्पते कस्स ।। ५३४२ ॥ आधाकर्म अधःकर्म आत्मघ्नम् आत्मकर्म चेति चत्वारि नामानि । तत्र साधूनामाधयाप्रणिधानेन यत् कर्म-पट्कायविनाशेनाशनादिनिष्पादनं तद आधाकर्म । तथा विशुद्धसंयम30 स्थानेभ्यः प्रतिपात्य आत्मानं अविशुद्धसंयमस्थानेषु यद अधोऽधः करोति तद अधःकर्म ।
आत्मानं-ज्ञान-दर्शन-चारित्ररूपं हन्ति-विनाशयतीति आत्मघ्नम् । यत् पाचकादेः सम्बन्धि - १ ताः किन्तु केपुचित् शय्यातरपिण्डादिषु स्थानेषु स्थिताः केषुचित् तु आचेलक्या. दिषु अस्थितास्ने अकल्प का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org