________________
भाष्यगाथाः ५३४०-४६] चतुर्थ उद्देशः ।
१४१९ कर्म-पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तद् आत्मनः सम्बन्धि क्रियते अनेनेति आत्मकर्म । तत् पुनराधाकर्म कस्य पुरुषस्य कल्पते ? न वा ? यद्वा कस्य तीर्थे कथं कल्पते ? न कल्पते वा ? इत्यमीभिरर्ज्ञातव्यम् ॥ ५३४२ ॥ तान्येव दर्शयति
संघस्स पुरिम-पच्छिम-मज्झिमसमणाण चेव समणीणं।
चउण्हं उवस्सयाणं, कायव्या मग्गणा होति ॥ ५३४३ ॥ आधाकर्मकारी सामान्येन विशेषेण वा सङ्घस्योद्देशं कुर्यात् । तत्र सामान्येन-अविशेषितं सङ्घमुद्दिशति, विशेषेण तु पूर्व वा मध्यमं वा पश्चिमं वा सङ्घ चेतसि प्रणिधत्ते । श्रमणानामप्योघतो विभागतश्च निर्देशं करोति । तत्रौषतः-अविशेषितश्रमणानाम् , विभागतः पञ्चयामिकश्रमणानां चतुर्यामिकश्रमणानां वा । एवं श्रमणीनामपि वक्तव्यम् । तथा चतुर्णामुपाश्रयाणामप्येवमेव सामान्येन विशेषेण च मार्गणा कर्तव्या भवति । तत्र चत्वार उपाश्रया इमे--10 पञ्चयामिकानां श्रमणानामुपाश्रयमुद्दिशतीति एकः, पञ्चयामिकानामेव श्रमणीनां द्वितीयः, एवं चतुर्यामिक श्रमण-श्रमणीनामप्येवमेव द्वावुपाश्रयौ मन्तव्यौ ॥ ५३४३ ॥ इदमेव भावयति
संघं समुद्दिसित्ता, पढमो वितिओ य समण-समणीओ।
ततिओ उवस्सए खलु, चउत्थओ एगपुरिसस्स ॥ ५३४४॥ आधाकर्मकारी प्रथमो दानश्राद्धादिः सङ्घ सामान्येन विशेषेण वा समुद्दिश्याधाकर्म 15 करोति । द्वितीयः श्रमण-श्रमणीः प्रणिधाय करोति । तृतीय उपाश्रयानुद्दिश्य करोति । चतुर्थ एकपुरुषस्योद्देशं कृत्वा करोति ॥ ५३४४ ॥ अत्र यथाक्रमं कल्प्या-ऽकल्प्यविधिमाह
जति सव्वं उद्दिसिउं, संघं कारेति दोण्ह वि ण कप्पे।
अहवा सव्वे समणा, समणी वा तत्थ वि तहेव ॥ ५३४५॥ 'यदीति' अभ्युपगमे । यदि नाम ऋषभस्वामिनोऽजितस्वामिनश्च तीर्थमेकत्र मिलितं 20 भवति पार्श्वस्वामि-वर्द्धमानस्वामिनोर्वा तीर्थ मिलितं यदा प्राप्यते तदा तत्कालमङ्गीकृत्यायं विधिरभिधीयते-सर्वमपि सङ्घ सामान्येनोद्दिश्य यदा आधाकर्म करोति तदा 'द्वयोरपि' पञ्चयामिक-चतुर्यामिकसङ्घयोन कल्पते । अथ सर्वान् श्रमणान् सामान्येनोद्दिशति ततः 'तत्रापि' श्रमणानामपि सामान्येनोद्देशे 'तथैव' सर्वेषामपि पञ्चयामिकानां चतुर्यामिकानां च श्रमणानां न कल्पते । एवं श्रमणीनामपि सामान्येनोद्देशे सर्वासामकल्प्यम् ॥ ५३४५ ॥ १० अथ विभागोद्देशे विधिमाह__ जइ पुण पुरिमं संघ, उदिसती मज्झिमस्स तो कप्पे ।
मज्झिमउद्दिद्वे पुण, दोण्हं पि अकप्पितं होति ॥ ५३४६ ॥ यदि पुनः पूर्वमृपभखामिसत्कं सङ्घ समुद्दिशति ततः 'मध्यमस्य' अजितखामिसङ्घस्य कल्पते । अथ मध्यमं सङ्घमुद्दिशति तदा 'द्वयोरपि' पूर्व-मध्यमसङ्घयोरकल्प्यं भवति । 30 एवं पश्चिमतीर्थकरसत्कं सङ्घमुद्दिश्य कृतं मध्यमस्य कल्पते, मध्यमस्य कृतं द्वयोरपि न कल्पते ॥ ५३४६॥
एमेव समणवग्गे, समणीवग्गे य पुव्वमुद्दिढे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org