________________
भाष्यगाथाः ५३३१-३९] चतुर्थ उद्देशः ।
१४१७ 'अवमे' दुर्भिक्षे यावन्तिकादिकमनेषणीयं विष्वक्' पृथग् गृहीत्वा शैक्षस्यार्थायाऽऽनीतं तस्यैव प्रयच्छन्ति, संस्तरन्तो वा उज्झन्ति । यो वा ऋद्धिमत्प्रव्रजितस्तं 'भावयन्तः' भैक्ष-भोजनभावनां ग्राहयन्तो यावद् भावितो न भवति तावद् येन वा तेन वा दोषेणानेषणीयं प्रायोग्य लब्ध्वा ददति । यद्येवं ऋद्धिमत्प्रव्रजितं नानुवर्तयन्ति ततश्चतुर्गुरुकम् ॥ ५३३६ ॥ कुतः ? इति चेद् उच्यते
तित्थविवड्डी य पभावणा य ओभावणा कुलिंगीणं । __ एमादी तत्थ गुणा, अकुचतो भारिया चतुरो ।। ५३३७॥ ऋद्धिमति प्रबजिते तीर्थविवृद्धिर्भवति, 'यदीदृशा अप्येतेषां सकाशे प्रव्रजन्ति ततो वयं द्रमकप्रायाः किमेवं गृहवासमधिवसामः ?' इति बुद्ध्या भूयांसः प्रव्रजन्तीति भावः । प्रभावना च प्रवचनस्य भवति कुलिङ्गिनां चापभाजना भवति, तेषां मध्ये ईदृशामृद्धिमतामभावात् ।10 एवमादयः 'तत्र' राजादिप्रव्रजिते यतो गुणा भवन्ति अतस्तस्यानुवर्तनामकुर्वतश्चत्वारो भारिका मासाः प्रायश्चित्तम् ॥ ५३३७ ॥ अथ द्वितीयपदमाह
अद्धाणाऽसिव ओमे, रायडुढे असंथरेता उ ।
सयमवि य भुंजमाणा, विसुद्धभावा अपच्छित्ता ॥ ५३३८॥ अध्वा-ऽशिवा-ऽवम-राजद्विष्टेषु असंस्तरन्तः स्वयमप्यनेषणीयं विशुद्धभावा भुञ्जाना अप्रा-15 यश्चित्ता मन्तव्याः॥ ५३३८ ॥
॥अनेषणीयप्रकृतं समाप्तम् ॥
कल्प स्थि ता क ल्प स्थि त प्रकृतम् सूत्रम्
जे कडे कप्पट्ठियाणं कप्पइ से अकप्पट्टियाणं, नो से 20 कप्पइ कप्पट्टियाणं । जे कडे अकप्पट्टियाणं णो से कप्पइ कप्पटियाणं कप्पइ से अकप्पट्ठियाणं । कप्पे
ठिया कप्पट्ठिया, अकप्पे ठिया अकप्पट्ठिया १९ ॥ अस्य सम्बन्धमाहसुत्तेणेव उ जोगो, मिस्सियभावस्स पन्नवणहेउं ।
25 अक्खेव णिण्णओ वा, जम्हा तु ठिओ अकप्पम्मि ॥५३३९ ॥ सूत्रेणैव 'योगः' सम्बन्धः क्रियते-'मिश्रितभावस्य' 'किमर्थमिदमशुद्धं मम दीयते ?' इत्येवं कलुषितपरिणामस्य शैक्षस्य प्रज्ञापनाहेतोरिदं सूत्रमारभ्यते । यद्वा 'कथं शैक्षस्यानेषणीयं कल्पते ?' इत्येवं केनापि 'आक्षेपे' पूर्वपक्षे कृते निर्णयः' निर्वचनमनेन क्रियते । कथम् ? इत्याह—यस्माद् असौ शैक्षः 'अकल्पे' सामायिकसंयमलक्षणे स्थितः ततः कल्पते तस्याने- 30 षणीयमिति ॥ ५३३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org