________________
१४१६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनेष०प्रकृते सूत्रम् १८
संथरमाणे देतो, लग्गइ सहाणपच्छित्ते ॥ ५३३१ ॥ - ज्ञात्वा 'तस्य' शैक्षस्य 'भावं' स्निग्ध-मधुरभोजनविषयमभिप्रायमेषणीयालाभे यतनया तस्यानेषणीयमपि दातुं कल्पते । अथ संस्तरतोऽपि ददाति ततः स्वस्थानप्रायश्चित्ते लगति, येन दोषेणाशुद्धं तन्निष्पन्नं प्रायश्चित्तमापद्यत इति भावः ॥ ५३३१ ॥
सेहस्स व संबंधी, तारिसमिच्छंतें वारणा णत्थि ।
कक्खडे व महिड्डीए, वितियं अद्धाणमादीसु ॥ ५३३२॥ शैक्षस्य वा सम्बन्धिनः केऽपि स्नेहातिरेकत उत्कृष्टं भक्तमानीय दद्युः, तस्य च तादृशं भोक्तुमिच्छतः 'वारणा' प्रतिषेधो नास्ति । "कक्खडे व" त्ति कर्कशम्-अवमौदर्य तत्रासंस्तरणेऽशुद्धं शैक्षस्य दातव्यम् , शुद्धमात्मना भोक्तव्यम् । “महिड्डीए" ति महर्द्धिकः-राजादि10 प्रव्रजितः स यावद् नाद्यापि भावितः तावत् प्रायोग्यमनेषणीयं दीयते । “विइयं अद्धाणमादीसु" ति अध्वादिषु कारणेषु द्वितीयपदं भवति, खयमप्यनेषणीयं भुञ्जानाः शुद्धा इति भावः । एषा पुरातनी गाथा ॥ ५३३२ ॥ साम्प्रतमेनामेव विवृणोति--
नीया व केई तु विरूवरूवं, आणेज भत्तं अणुवट्ठियस्सा।
स चावि पुच्छेज जता तु थेरे, तदा ण वारेति णं मा गुरूगा ॥ ५३३३ ॥ 15 निजकाः केचिद् 'विरूपरूपं' मोदका-ऽशोकवर्ति-शाल्योदनप्रभृतिकमुस्कृष्टं भक्तमनुपस्थितस्य शैक्षस्यार्थायानयेयुः । स च तैर्निमन्त्रितो यदा 'स्थविरान्' आचार्यान् पृच्छेत्गृहाम्यहमिदम् ? न वा ? इति; तदा गुरवो 'ण"मिति 'तं' शैक्षं न वारयन्ति । कुतः ? इत्याह-"मा गुरूग" त्ति मा वारयतां चत्वारो गुरुकाः प्रायश्चित्तं भवेत् ॥ ५३३३ ॥ किमर्थं पुनर्न वार्यते ? इत्याह
लोलुग सिणेहतो वा, अण्णहभावो व तस्स वा तेसिं ।'
गिण्हह तुम्भे वि बहुं, पुरिमड्डी णिविगतिगा मो ॥५३३४ ॥ लोलुपतया संज्ञातकस्नेहतो वा स तद् भक्तं भोक्तुमभिलषेत् ततो यदि वार्यते तदा 'तस्य' शैक्षस्य 'तेषां वा' संज्ञातकानाम् 'अन्यथाभावः' विपरिणमनं भवेत् । संज्ञातकाश्च यदि साधूनामन्त्रयन्ते-बह्वेतद् भक्तम् अतो यूयमपि गृहीत; ततो वक्तव्यम् -- "मो" इति वयं 25 पूर्वार्द्धप्रत्याख्यानिनो निर्विकृतिका वा ॥ ५३३४ ॥ अथ ते संज्ञातका ब्रवीरन्
मंदक्खेण ण इच्छति, तुम्भे से देह वेह णं तुम्भे ।
किं वा वारेमु वयं, गिण्हतु छंदेण तो विति ॥ ५३३५॥ एष युष्माभिरनुज्ञातः ‘मन्दाक्षेण' लज्जया न ग्रहीतुमिच्छति ततो यूयं तस्य प्रयच्छत, भणत वा यूयम्-~-गृहाणेति । तत्र त्रुवते-किं वा वयं वारयामः ? गृह्णातु स्वयमेव छन्देन 30 यदि रोचते ॥ ५३३५ ॥ अथ “कक्खडे व महिड्डीए" ति पदद्वयं व्याख्याति
वीसुं वोमे घेत्तुं, दिति व से संथरे व उज्झंति ।
भावंता विड्डिमतो, दलंति जा भावितोऽसि ॥ ५३३६ ॥ १ "निजकाः' शैक्षसत्कसज्ञातकाः केचिद् कां० ॥ २ मंतक्खेण ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org