________________
भाष्यगाथाः ५३२२-३०] चतुर्थ उद्देशः ।
१४१५ तस्याशुद्धाहारदानानन्तरं वातादीनां क्षोभे 'जघन्यकालात्' तत्क्षणादेवोत्थिते विषाशङ्का भवति–मन्ये विषममीभिर्मम दत्तं येनैवं मे सहसैव धातुक्षोभः समजनि । एवं चिन्तयतस्त. स्याचिरादेव मरणं भवेत् । कुतः ? इत्याह-"अवि" इत्यादि, 'अपिः' सम्भावनायाम्, सम्भाव्यते अयमर्थः-यद् अन्यस्य सर्वस्यापि विषस्य मन्त्रादिक्रिया युज्यते, शङ्काविषस्य तु 'क्रिया' चिकित्सा नैव भवति, मानसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात् । यत एते दोषा। अतो नायतनया दातव्यम् ॥ ५३२६ ॥ अत्र परमतमुपन्यस्य दूषयति
केइ पुण साहियव्वं, अस्समणो हं ति पडिगमो होज ।
दायव्वं जतणाए, णाए अणुलोमणाऽऽउट्टी ।। ५३२७ ॥ केचित् पुनराचार्या ब्रुवते-स्फुटमेव तस्य कथयितव्यम्-भवत एवेदं कल्पते; एतच्च न युज्यते । यत एवमुक्ते कदाचिदसौ ब्रूयात्-यत् श्रमणानां न कल्पते तद् मम यदि कल्पते 10 तत एवमहम् 'अश्रमणः' न श्रमणो भवामि, अश्रमणस्य च निरर्थकं मे शिरस्तुण्डमुण्डनम् ; इति विचिन्त्य प्रतिगमनं कुर्यात् । यत एवमतो यतनया दातव्यम् । यतनया च दीयमानं यदि ज्ञातं भवति तदा वक्ष्यमाणवचनैः 'अनुलोमना' प्रज्ञापना तथा कर्तव्या यथा तस्य 'आवृत्तिः' समाधानं भवति ।। ५३२७ ॥ प्रज्ञापनाविधिश्वायम्
अभिनवधम्मो सि अभावितो सि बालो व तं सि अणुकंपो। 15 तव चेवऽट्ठा गहितं, अँजिजा तो परं छंदा ॥ ५३२८ ॥ कप्पो चिय सेहाणं, पुच्छसु अण्णे वि एस हु जिणाणा।
सामाइयकप्पठिती, एसा सुत्तं चिमं वेंति ॥ ५३२९ ॥ 'अभिनवधर्मा' अधुनैव गृहीतप्रव्रज्योऽसि त्वम् , अत एव 'अभावितोऽसि' नाद्यापि भैक्षभोजनेन भावितः, बालश्च त्वमसि अत एव 'अनुकम्प्यः' अनुकम्पनीयः, तत इदमुत्कृष्ट-20 द्रव्यमशुद्धमपि तवैवार्थाय गृहीतम् , अतः परं 'छन्दात्' खच्छन्देन भुञ्जीथाः ।। ५३२८ ॥
अपि च-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्तुं कल्पते, यदि भवतो न प्रत्ययस्ततः पृच्छ 'अन्यानपि' गीतार्थसाधून् । तेऽपि तेन पृष्टाः सन्तो ब्रुवते-एषा 'हु' निश्चितं 'जिनाज्ञा' तीर्थकृतामुपदेशः, सामायिककल्पस्य चैषैव स्थितिः । सूत्रं च ते साधवः 'इदं' प्रस्तुतं "अस्थि या इत्थ केइ सेहतराए" इत्यादिरूपं ब्रुवते । भवेत् कारणं येनाकुट्टिकयाऽपि दद्यात् ॥५३२९॥25 कथम् ? इत्याह
परतिस्थियपूयातो, पासिय विविहातों संखडीतो य ।
विप्परिणमेज सेधो, कक्खडचरियापरिस्संतो ॥ ५३३० ॥ क्वापि क्षेत्रे परतीथिकानां पूजाः-सादरस्निग्ध-मधुरभोजनादिरूपास्तदुपासकैर्विधीयमाना दृष्ट्वा विविधाश्च सङ्खडीरवलोक्य शैक्षः कर्कशचर्यापरिश्रान्तः सन् विपरिणमेत ॥५३३०॥ ततः-30
नाऊण तस्स भावं, कप्पति जतणाएँ ताहे दाउंजे । १ ते-“साहियव्यं" ति स्फु' का० ॥ २ °न्तः समस्तदोषविशुद्धभैक्षग्रहणनिर्विण्णः
सकां.॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org