________________
१४१४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनेष प्रकृते सूत्रम् १८
मा प्रतिगमिष्यतीति बुद्ध्या कार्मणमस्य दत्तं तेनाय "आगल्लो" ग्लानः सञ्जातः, अतो यावदस्माकमपि कार्मणं न दीयते तावत् त्वरितमिदानीमहमपि पलाये ॥ ५३२१ ।। अथवा कश्चिदिदं ब्रूयात्
भत्तेण मे ण कर्ज, कल्लं भिक्खं गतो व भोक्खामि ।
अण्णं व देह मज्झं, इय अजते उज्झिणिगदोसा ॥ ५३२२ ॥ भक्तेन 'मे' मम न कार्यम्, कल्ये वा भिक्षां गतो वा भोक्ष्ये, अन्यद्वा भक्तं मह्यं प्रयच्छत । "इय" एवमयतनया दीयमाने 'उज्झिनिका' पारिष्ठापनिका भवेत् । तस्यां च दोषाः कीटिका-मक्षिकादिविराधनारूपा मन्तव्याः ॥ ५३२२ ॥ ___ अथवा एकस्य ग्लानत्वे जातेऽपरश्चिन्तयेत्10 ह णु ताव असंदेहं, एस मओ हं तु ताव जीवामि ।
वग्घा हु चरंति इमे, मिगचम्मगसंवुता पावा ॥ ५३२३ ॥ "ह णु" त्ति 'हः' इति खेदे 'नुः' इति वितकें । एष तावद् असन्देहं मृतः, अहं तु तावदिदानी जीवामि, इमे च पापाः श्रमणका मृगचर्मसंवृता व्याघ्राश्चरन्ति, बहिः साधुवेश
च्छन्ना हिंसका अमी इति भावः । अतो यावद् एते मां जीवितान्न व्यपरोपयन्ति तावत् 16 प्रतिगच्छामीति ॥ ५३२३ ॥ किञ्च
अभिओगपरज्झस्स हु, को धम्मो किं व तेण णियमेणं ।
अहियकरगाहीण व, अभिजोएंताण को धम्मो ।। ५३२४ ॥ अभियोगेन-कार्मणेन "परज्झस्स" ति परवशीकृतस्य मम को नाम धर्मों भविष्यति !, किं वा तेन नियमेन मम कार्यम् ?, तथा अधिककरग्राहिणामिवामीषामप्येवमभियोजयतां को 20 धर्मः ? न कश्चिदित्यर्थः । एवं विचिन्त्य गृहवासं भूयोऽपि कुर्यात् ।। ५३२४ ॥ यो ग्लानीभूयोत्पवजितः स प्रव्रजन्तमित्थं विपरिणमयेत्
किच्छाहि जीवितो हं, जति मरिउं इच्छसी तहिं वच्च ।
एस तु भणामि भाउग, विसकुंभा ते महुपिहाणा ॥ ५३२५ ॥ 'कृच्छाद' अतिदुःखेनाहं तावद् जीवितः, अतो यदि त्वमपि मर्तुमिच्छसि तदा 'तत्र' 25 तेषां साधूनामन्तिके व्रज, येन भवतोऽप्येवं सम्पद्यत इति भावः । अपि च-हे भ्रातः ! एषोऽहमेकान्तहितो भूत्वा भवन्तं भणामि ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेन जीवदयाधुपदेशकं मधुरं वचो जल्पन्ति, चेतसा तु विषवत् परव्यपरोपणकारिदारुणपरिणामा इति हृदयम् । एवं विपरिणामितोऽसौ प्रव्रज्यामप्रतिपद्यमानः षट्कायविराधनादिकं यत् करोति तन्निष्पन्नं अयतनादायिनः प्रायश्चित्तम् ॥ ५३२५ ॥ किश्च---
वातादीणं खोभे, जहण्णकालुस्थिए विसाऽऽसंका ।
अवि जुजति अन्नविसे, णेव य संकाविसे किरिया ॥ ५३२६ ॥ १ "वर्तमानासन्ने वर्तमाना" इति वचनात् 'मा पडिगच्छद' त्ति मा प्रति का० ॥ २°दानी "हः" इति खेदे, "नुः" इति वितर्के, किं पलाये? कां• ॥ ३ मरणं इ तामा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org