________________
भाष्यगाथाः ५३१५-२१]
चतुर्थ उद्देशः ।
१४१३
कल्पते "से" 'तस्य' निर्ग्रन्थस्य 'तस्मै' शैक्षाय दातुमनुप्रदातुं वा । तत्र दातुं प्रथमतः, 'अनुप्र दातुं' तेनान्यस्मिन्नेषणीये दत्ते सति पश्चात् प्रदातुम् । अथ नास्त्यत्र कोऽपि शैक्षतर कोऽनुपस्थापितकस्ततस्तद् नैव आत्मना भुञ्जीत न वाऽन्येषां दद्यात् किन्तु एकान्ते बहुप्राशुके प्रदेशे प्रत्युपेक्ष्य प्रमृज्य च परिष्ठापयितव्यं स्यादिति सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः
अन्नतरणेस णिज्जं, आउड्डिय गिण्हणे तु जं जत्थ ।
अणभोग गहित जतणा, अजतण दोसा इमे होंति ॥ ५३१७ ॥
'अन्यतरद्' उद्गमादीनामेकतर दोषदुष्टमनेषणीयमाकुट्टिकया यो गृह्णाति । आकुट्टिका नामस्वयमेव भोक्ष्ये शैक्षस्य वा दास्यामि । एवमुपेत्य ग्रहणे येन दोषेणाशुद्धं तमापद्यते, यच्च यत्र दोषे प्रायश्चित्तं तत् तस्य भवति । अथानाभोगेनानेषणीयं गृहीतं ततो यतनया शैक्षस्य दातव्यम् । यदि अयतनया ददाति तत इमे दोषा भवन्ति ।। ५३१७ ॥
मा सव्वमेयं मम देहमन्नं, उक्कोसएणं व अलाहि मज्झं ।
किं वा ममं दिजति सव्वमेयं, इच्चेव वृत्तो तु भणाति कोई ।। ५३१८ ।। तेन अनेषणीयमिति कृत्वा शैक्षस्य दत्तम्, स च शैक्षो ब्रूयात् - मा सर्वमेतद् 'अन्न' भक्तं मम दत्त, अथोत्कृष्टमिति कृत्वा मे दीयते तत्रोत्कृष्टेन भक्तेन ममालम्, किं वा सर्वमे - तद् मम दीयते ? इति । एवं शैक्षेणोक्तः कश्चिद् भणति ॥ ५३१८ ॥
15
5
एतं तुब्भं अम्हं, न कप्पति चउगुरुं च आणादी ।
संका व आभिओग्गे, एगेण व इच्छियं होजा ॥ ५३१९ ॥
'एतत् तव कल्पते, अस्माकं तु न कल्पते' एवं भणतश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । शङ्का च तस्य शैक्षस्य आभियोगः - कार्मणं तद्विषया भवति । 'एकेन वा' केनचित् शैक्षेण तद् दीयमानमीप्सितं भवेत् तस्य च ग्लानत्वे यथाभावेन जाते सति द्वितीयशैक्ष उड्डाहं 20 कुर्यात् ॥ ५३१९ ॥ इदमेव भावयति -
किं पुनश्चिन्तयित्वा स व्रतं वमति ? इत्याह
मा पडिगच्छति दिणं, से कम्मण तेण एस आगल्लो ।
जाव ण दिजति अम्ह वि, ह णु दाणि पलामि ता तुरियं ॥ ५३२१ ॥
10
कम्मोदय गेलने, दट्ठूण गतो करेज उड्डाहं ।
एगस्स वा विदिण्णे, गिलाण वमिऊण उड्डाहो ॥। ५३२० ॥
कर्मोदयाद् यथाभावेनैव ग्लानत्वे जाते सति स चिन्तयेत् — एतैः 'मा व्रतादयं प्रतिभज्यताम्' इति कृत्वा ममाभियोग्यं दत्तम् । एवं 'दृष्ट्वा ' ज्ञात्वा स भूयो गृहवासं गतः सन् 25 उड्डाहं कुर्यात् — एतैः कार्मणं मम दत्तमिति । एकस्य वा दत्ते सति यदा ग्लानत्वं जातं तदा द्वितीयः शैक्षो व्रतं वमित्वा प्रभूतजनसमक्षमुड्डाहं कुर्यात् ॥ ५३२० ॥
Jain Education International
-
30
१ षां साधूनां "दावए" त्ति आर्षत्वाद् दद्या कां० ॥ २ इतोऽग्रे कां० प्रतौ के पुनस्ते ? इत्यत आह इत्यवतरणं विद्यते ॥ ३ इतोऽग्रे कां० प्रतौ किम् ? इत्यत आह इत्यवतरणं वर्तते ॥ ४ °दा "गिलाण ” त्ति भावप्रधानत्वाद् निर्देशस्य ग्ला° कां० ॥
For Private & Personal Use Only
www.jainelibrary.org