________________
१४१२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अनेष०प्रकृते सूत्रम् १८
अ ने ष णी य प्र क तम् सूत्रम्
निग्गंथेण य गाहावइकुलं पिंडवायपडियाए अणुप्पविटेणं अन्नतरे अचित्ते अणेसणिजे पाण-भोयणे पडिग्गाहिए सिया, अस्थि या इत्थ केइ सेहतराए अणुवट्ठावियए कप्पइ से तस्स दाउं अणुप्पदाउं वा; नत्थि या इत्थ केइ सेहतराए अणुवट्ठावियए तं नो अप्पणा मुंजेज्जा, नो अन्नेसिं दावए, एगंते बहुफासुए पएसे पडिलेहित्ता पमजित्ता परिटवे
यव्वे सिया १८॥ अस्य सम्बन्धमाह
आहार एव पगतो, तस्स उ गहणम्मि वणिया सोही ।
आहच्च पुण असुद्धे, अचित्त गहिए इमं सुत्तं ॥ ५३१५ ॥ आहार एवानन्तरसूत्रे प्रकृतः । तस्य च' आहारस्य ग्रहणे शोधिर्वर्णिता, यथा शुद्ध आहारो 15 ग्रहीतव्यः तथा भणितमिति भावः । “आहच्च" कदाचित् पुनरशुद्धो अचित्त आहारो गृहीतो भवेत् तत्र को विधिः ? इत्यस्यां जिज्ञासायामिदं सूत्रमारभ्यते ॥ ५३१५ ॥
__ अहवण सचित्तदव्वं, पडिसिद्धं दव्वमादिपडिसेहे ।
इह पुण अचित्तदव्वं, वारेति अणेसियं जोगो ॥ ५३१६ ॥ अथवा पूर्वतरसूत्रेषु “तओ नो कप्पंति पवावित्तए" (सू० ४) इत्यादिषु सचित्तद्रव्यं 20 'द्रव्यादिप्रतिषेधेन' द्रव्यं-पण्डकादिकं तदाश्रित्य प्रतिषेधो द्रव्यप्रतिषेधस्तेन, आदिशब्दाद्
"दुढे मूढे" इत्यादिषु च भावप्रतिषेधेन प्रतिषिद्धम् । इह पुनः' प्रकृतसूत्रेऽचित्तद्रव्यमनेषणीयं वारयति । एष 'योगः' सम्बन्धः ॥ ५३१६॥
अनेनायातस्यास्य व्याख्या-निर्ग्रन्थेन च गृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टेन "अन्नतरे" ति उद्गमोत्पादनैषणादोषाणामन्यतरेण दोषेण दुष्टम् 'अनेषणीयम्' अशुद्धम् 2 'अचित्तं' निर्जीवं पान-भोजनमनाभोगेन प्रतिगृहीतं स्यात् , तच्चोत्कृष्टं न यतस्ततः परित्यक्तुं
शक्यते, अस्ति चात्र कश्चित् 'शैक्षतरकः' लघुतरः 'अनुपस्थापितकः' अनारोपितमहाव्रतः । १°याऽनन्तरसूत्रे भणि का० ॥ २ 'शुद्धः-अनेषणीयः परम् अचित्तः-प्राशुकः एवं. विध आहा कां ॥ ३ "अहवण" त्ति अखण्डमव्ययमथवार्थे । अथवा कां० ॥ ४ सूत्रे 'अचित्तद्रव्यम्' आहाररूपम् 'अनेषितम्' अनेषणी' का० ॥ ५ च 'अत्र' विवक्षितनिग्रन्थसत्कगच्छमध्ये कश्चि° कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org