________________
भाष्यगाथाः ५३०६-१४] चतुर्थ उद्देशः।
१४११ द्वितीये च 'द्रवं' पानकं भवति । तथैकस्मिन् मात्रके आचार्यादीनां प्रायोग्यं गृह्यते, द्वितीये तु संसक्तं भक्तं वा पानकं वा प्रत्युपेक्षते । यदि शुद्धं ततः प्रतिग्रहे प्रक्षिप्यते ॥ ५३०९ ॥
... जति रिको तो दवमत्तगम्मि पढमालियाएँ गहणं तु ।
संसत्त गहण दवदुल्लभे य तत्थेव ज पंतं ॥ ५३१०॥ यदि रिक्तोऽसौ द्रवमात्रकः ततस्तत्र प्रथमालिकाया ग्रहणं कर्तव्यम् , एवं संसृष्टं न भवति । अथवा तस्मिन् द्रवमात्रके संसक्तं द्रवं गृहीतम् , द्रवं वा तत्र क्षेत्रे दुर्लभं ततः 'तत्रैव' भक्तप्रतिग्रहे यत् प्रान्तं तद् एकेन हस्तेनाकृष्य अन्यस्मिन् हस्ते कृत्वा समुद्दिशति, एवं संसृष्टं न भवति ॥ ५३१०॥
बिइयपदं तत्थेवा, सेसं अहवा वि होइ सव्वं पि।
तम्हा गंतव्वं आणणं, व जति वि पुट्ठो तह वि सुद्धो ॥ ५३११ ॥ 10 द्वितीयपदमत्रोच्यते-अतीव बुभुक्षितास्तत्रैवात्मनः संविभागं भुञ्जते, शेषं सर्वमप्यानयन्ति, अथवा तत्रैव सर्वमात्म-परसंविभागं भुञ्जते । यत एष एवंविधो विधिस्तस्माद् विधिना गन्तव्यं विधिना आनेतव्यं विधिना तत्रैव भोक्तव्यम् । एवं सर्वत्र विधिं कुर्वन् यद्यपि दोषैः स्पृष्टो भवति तथापि शुद्धः ॥ ५३११ ॥ __ कथं पुनः सर्वमसर्व वा भिक्षाचर्यागतेन भोक्तव्यम् ? इत्याह
15 अंतरपल्लीगहितं, पढमागहियं व भुंजए सव्वं ।
संखडि धुवलंभे वा, जं गहियं दोसिणं वा वि ॥ ५३१२ ॥ यद् अन्तरपल्लिकायां गृहीतं प्रथमपौरुषीगृहीतं वा तत् सर्वमपि भुते । यत्र वा जानन्ति सङ्खड्यां ध्रुवो लाभो भविता तत्र यत् पूर्व गृहीतं तत् सर्वमपि भोक्तव्यम् । यद् वा दोषान्नं गृहीतं तदशेषमपि भोक्तव्यम् ॥ ५३१२ ।।
20 दरहिंडिएव भाणं, भरियं भुत्तुं पुणो वि हिंडिजा।
कालो वाऽतिकमई, मुंजेजा अंतरा सव्वं ॥ ५३१३ ॥ अथवा 'दरहिण्डिते' अर्धपर्यटित एव भाजनं भृतं ततोऽल्पसागारिके तत् पर्याप्तं भुक्त्वा पुनरपि भिक्षां हिण्डेत । अथवा यावद् आचार्यान्तिके आगच्छन्ति तावत् कालोऽतिकामति, चतुर्थपौरुषी लगति सूर्यो वाऽस्तमेतीत्यर्थः, ततः सर्वमपि 'अन्तरा' तत्रैव भुञ्जीत ॥५३१३॥ 25
परमद्धजोयणातो, उजाण परेण जे भणिय दोसा।
आहचुवातिणाविएँ, ते चेवुस्सग्ग-अववाता॥ ५३१४॥ , अथार्धयोजनात् परेण अतिक्रामयति तदा ये उद्यानात् परतोऽतिक्रामणे दोषाः पूर्व भणि. तास्त एव द्रष्टव्याः । अथ "आहच्च" कदाचिदनाभोगादिनाऽतिकामितं ततस्तावेवोत्सर्गाऽपवादौ, उत्सर्गतस्तद् न भोक्तव्यम् अपवादतः पुनरसंस्तरणे भोक्तव्यमिति भावः ।।५३१४ ।। 30
॥ काल-क्षेत्रातिक्रान्तप्रकृतं समासम् ॥
१ यां-मूलनामार्धतृतीयगव्यूतिभाविन्यां गृही का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org