________________
15
१४१० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ काल० प्रकृते सूत्रम् १६-१७
यदि तावल्लौकिका अपि यो गुरुः-पिता ज्येष्ठबन्धुर्वा कुटुम्बं धारयति तस्मिन्नभुक्ते न भुञ्जते, यच्चोत्कृष्टं शाल्योदनादिकं तत् तस्य प्रयच्छन्ति; ततः किं पुनर्यस्य प्रभावेन संसारो निस्तीर्यते तस्य प्रायोग्यमदत्त्वा एवमेव भुज्यते ? । यस्तु भुङ्क्ते तस्य मासलघु । वसतेरभावाच तत्र भुञ्जानान् सागारिको यदि पश्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः । अस्थण्डिले च समुद्दिशतां पृथिव्यादिविराधना । आनयने तु सर्वेऽप्येते दोषाः परिहता भवन्ति, अतो गुरुसमीपमानेतव्यम् । द्वितीयपदे प्रथमालिकां कुर्वन्तो गुरुमापृच्छय गच्छन्ति । यतनया च यथा संसृष्टं न भवति तथा प्रथमालिका कर्तव्या ॥ ५३०५ ।।
चोदगवयणं अप्पाऽणुकंपिओ ते य मे परिचत्ता।
. आयरिए अणुकंपा, परलोए इह पसंसणया ॥ ५३०६॥ 10 'नोदकवचनं नाम' परः प्रेरयति-यावत् ते ततो ग्रामात् प्रत्यागच्छन्ति तावत् तृष्णा
क्षुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापयद्भिर्भवद्भिरात्मा अनुकम्पितः 'ते च' साधवः परित्यक्ता भवन्ति । गुरुराह-ननु मुग्ध ! त एवानुकम्पिताः, कथम् ? इत्याह-"आयरिए" इत्यादि, यद् आचार्यवैयावृत्ये नियुक्ता एषा पारलौकिकी तेषामनुकम्पा; इहलोकेऽपि तेऽनुकम्पिताः, यतो बहुभ्यः साधु-साध्वीजनेभ्यः प्रशंसामासादयन्ति ॥ ५३०६ ॥ परः प्राह
एवं पि परिचत्ता, काले खमए य असहपुरिसे य ।
कालो गिम्हो उ भवे, खमओ वा पढम-वितिएहिं ॥ ५३०७ ॥ यतस्ते बुभुक्षित-तृषिता भाराकान्ताः शीत-वाता-ऽऽतपैरभिहताः पन्थानं वहन्ति, यूयं तु शीतलच्छायायां तिष्ठथ, तत एवमपि ते परित्यक्ताः । सूरिराह-तेषामपि कालं क्षपकमसहिष्णुपुरुषं च प्रतीत्य प्रथमालिकाकरणमनुज्ञातम् । तत्र काल:-ग्रीष्मलक्षणस्तस्मिन् प्रथमालिकां 20 कृत्वा पानकं पिबन्ति, क्षपको वा प्रथम-द्वितीयपरीषहाभ्यामतीव बाधितः प्रथमालिकां करोति, एवमसहिष्णुरपि बुभुक्षार्तः प्रथमालिकां कुर्यात् ॥ ५३०७ ॥ अत्र परः प्राह
जइ एवं संसहूं, अप्पत्ते दोसियाइणं गहणं ।
लंबण भिक्खा दुविहा, जहण्णमुक्कोस तिय पणए ॥ ५३०८ ॥ यद्येवमसौ बहिरेव प्रथमालिकां करोति ततो भक्तं संसृष्टं भवति, संसृष्टे च गुर्वादीनां 25 दीयमानेऽभक्तिः कृता भवति । गुरुराह-अप्राप्ते देश-काले दोषान्नादेग्रहणं कृत्वा येषु वा कुलेषु प्रभाते वेला तेषु पर्यट्य प्रथमालिकां कुर्वन्ति, भाजनस्य च कल्पं कुर्वन्ति । प्रथमालि. काप्रमाणं च द्विधा-लम्बनतो भिक्षातश्च । तत्र जघन्येन त्रयः 'लम्बनाः' कवलास्तिस्रश्च भिक्षाः, उत्कर्षतः पञ्च लम्बनाः पञ्च वा भिक्षाः । शेषं सर्वमपि मध्यमं प्रमाणम् ।। ५३०८॥ ___अथ तैः कुत्र किं ग्रहीतव्यम् ? इति निरूपयति
एगत्थ होइ भत्तं, बितियम्मि पडिग्गहे दवं होति ।
गुरुमादीपाउग्गं, मत्तएँ वितिए य संसत्तं ॥ ५३०९ ॥ साधुद्वयस्य द्वौ प्रतिग्रहौ द्वौ च मात्रको भवतः । तत्रैकस्मिन् प्रतिग्रहे भक्तं ग्रहीतव्यम् , १ गिंभो उ ताभा ॥ २ सिणादिणं ताभा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org