________________
१४०८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ काल० प्रकृते सूत्रम् १६-१७ विज्ञाय क्षेत्रं प्रयत्नेन रक्षणीयमिति प्रक्रमः ॥ ५२९६ ॥ अयं चापरस्तत्र गुणो भवति
बोरीइ य दिटुंतो, गच्छे वायामों तहिं च पतिरिकं ।
केइ पुण तत्थ भुंजण, आणेमाणे भणिय दोसा ॥ ५२९७ ॥ बहिामे भिक्षाटने क्रियमाणे प्रभूतं दुग्ध-दध्यादिकं प्रायोग्यं प्राप्यते, तथा चात्र बदर्या 5 दृष्टान्तो भवति । अपि च गच्छे एषैव सामाचारी गणधरभणिता-यद् बहिर्गामे तरुणैभिक्षायामटनीयम् । व्यायामश्च मोहचिकित्सानिमित्तं तैः कृतो भवति । तत्र' बहिर्गामे चशब्दाद इह च ग्रामे "पइरिकं" एकान्तं भवति, मुत्कलमित्यर्थः । यद्रा "पडरिकं" ति पचरं भक्त-पानं तत्रावाप्यते । केचित् पुनराचार्यदेशीया ब्रुवते-'तत्रैव' बहिर्गामे भोजनं कर्त्तव्यम् , यतो ये पूर्वमानयतो भार-वेदनादयो दोषा भणितास्ते एवं परिहृता भवन्ति । एतत् परमत10 मुत्तरत्र निराकरिष्यते ॥ ५२९७ ॥ अथ बदरीदृष्टान्तमाह
गामऽभासे बदरी, नीसंदकडुप्फला य खुज्जा य । पक्काऽऽमाऽलस चेडा, खायंतियरे गता दूरं ॥ ५२९८ ॥ सिग्यतरं ते आता, तेसिऽण्णेसिं च दिति सयमेव ।
खायंति एव इहइं, आय-परसुहावहा तरुणा ॥ ५२९९ ॥ 1s कस्यापि ग्रामस्य 'अभ्यासे' प्रत्यासत्तौ बदरी । सा ग्रामनिस्यन्दपानीयेन संवर्धिता ततः
कटुकफला संवृत्ता । अन्यच्च सा खभावत एव कुब्जा ततः सुखारोहा । तस्यां च कानिचित् फलानि पक्कानि कानिचिदामानि, अथवा "पक्काऽऽम" ति मन्दपक्कानि । तत्र ये अलसाः 'चेटकाः' बालकास्ते तां बदरी सुखारोहामारुह्य कटुकान्यपि बदराणि भक्षयन्ति, तान्यपि वल्प
तया न पर्याप्तानि भवन्ति । 'इतरे नाम' अनलसाः-उत्साहवन्तो बालकास्ते दूरमटवीं गताः, 20 तत्र च महाबदरीवनेषु परिपक्वानि बदराणि यथेच्छं खादन्ति ॥ ५२९८ ॥
ततो यावत् तेऽलसास्तस्यां कटुकबदाँ क्लिश्यमाना आसते तावत् 'ते' दूरगामिनो बालका आत्मनः पर्याप्तं कृत्वा बदरपोट्टलकमाराकान्ताः शीघ्रतरमागताः 'तेषाम्' अलसानाम् 'अन्येषां च' गृहे स्थितानां वजनानां बदराणि पर्याया ददति, खयमेव च भक्षयन्ति ।
एवम् ‘इहा पि' गच्छवासे तरुणा भिक्षवो वीर्यसम्पन्ना उत्साहवन्तो बाह्यग्रामे हिण्डमाना 25 आत्मनः परेषां च-बाल-वृद्धादीनां सुखावहा भवन्ति ॥५२९९॥ कथम् ? इति चेद् उच्यते
खीर-दहीमादीण य, लंभो सिग्घतर पढम पइरिके।
उग्गमदोसा विजढा, भवंति अणुकंपिया चितरे ॥ ५३०० ॥ यथा तेऽलसाश्चेटकास्तथा बाल-वृद्धादयोऽपि कुजबदरीकल्पे तस्मिन् मूलग्रामे प्रत्यहमुद्वेज्यमानतया चिरमपि हिण्डमानाः कोद्रव-कूरादिकमेव लभन्ते, तदपि न पर्याप्तम् । ये तु 30 तरुणा बहिग्रामे गच्छन्ति तेऽनलसचेटककल्पाः, ततः क्षीर-दध्यादीनां प्रायोग्यद्रव्याणां
लाभस्तेषां बहिर्गामे भवति, शीघ्रतरं च ते खग्रामे आगच्छन्ति । "पढम" ति प्रथमालिकां च खयं कुर्वन्ति, बालादिभ्यः प्रथमतरं वा समागच्छन्ति । “पइरिकं" ति प्रचुरं भक्त-पानमु१°स्तहुणो ताटी० मो. डे० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org