________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ काल० प्रकृते सूत्रम् १६-१७ उजाण आरएणं, तहियं किं ते ण जायते दोसा ।
परिहरिया ते होजा, जति वि तहिं खेत्तमावजे ।। ५२८९ ॥ उद्यानादारतो ग्रामादेरानीयमाने भक्त-पाने किं ते दोषा न जायन्ते यदेवमुद्यानात् परत इत्यभिधीयते ? । सूरिराह-'ते' दोषास्तीर्थकरवचनप्रामाण्येन परिहृता भवन्ति यद्यप्यनु। ज्ञातक्षेत्रे तान् दोषानापद्यते ॥ ५२८९ ॥ पुनरपि परः प्रेरयति
एवं सुत्तं अफलं, सुत्तनिवातो इमो तु जिणकप्पे ।
गच्छम्मि अद्धजोयण, केसिंची कारणे तं पि ॥ ५२९० ॥ ननु याद्यानात् परतो नातिक्रामयितव्यम् ततो यत् "परमद्धजोयणमेराओ" ति सूत्रं भणितं तद् अफलं प्राप्नोति । आचार्यः प्राह-यद् 'अग्रोद्यानात् परतो नातिकामयितव्यम्' 10 इत्युच्यते स एष सूत्रार्थनिपातः 'जिनकल्पे' जिनकल्पिकविषयो मन्तव्यः, यत् पुनः "अर्द्ध
योजनात् परतः" इत्यादि सूत्रं तद् गच्छवासिविषयम् । केषाश्चिदाचार्याणामयमभिप्रायः, यथा-गच्छवासिभिरपि उत्सर्गत उद्यानात् परतो नातिकामणीयम् , कारणे तु तदप्यर्धयोजन नेतव्यम् , एवमापवादिकं सूत्रम् । यद्वा "केसिंची कारणे तं पि" त्ति अन्यथा व्याख्यायते'केषाञ्चिद्' आचार्य-बाल-वृद्धादीनां कारणे 'तेदपि' अर्धयोजनं गम्यते ॥ ५२९० ।। 15 इदमेव भावयति--
सक्खेत जदा ण लभति, तत्तो दूरे वि कारणे जतति ।
गिहिणो वि चिंतणमणागतम्मि गच्छे किमंग पुण ॥ ५२९१ ॥ 'वक्षेत्रे' स्वग्रामे यदा न लमते तदा दूरेऽप्याचार्यादीनां कारणे भक्त-पानग्रहणार्थ यतते, अर्धयोजनमपि गच्छतीति भावः । अपि च यद्यपि स्वग्रामे प्राचुर्येण लभ्यते तथाऽप्युत्स20र्गतस्तत्र न हिण्डनीयम् । कुतः ? इत्याह-यदि तावद् गृहिणोऽपि. क्रयविक्रयसम्प्रयुक्ता
अनागतं प्राघूर्णकाद्यर्थ घृत-गुड-लवण-तण्डुलादीनां चिन्तां कुर्वन्ति किमङ्ग पुनर्गच्छे सबाल-वृद्धे येषां क्रयविक्रयः सञ्चयश्च नास्ति तैः प्रापूर्णकाद्यर्थमनागतं न चिन्तनीयम् ? ॥५२९१।। ततः
संघाडेगो ठवणाकुलेसु सेसेसु बाल-वुड्ढादी।
तरुणा बाहिरगामे, पुच्छा दिटुंतऽगारीए ॥ ५२९२ ॥ 25 खग्रामे यानि दानश्राद्धादीनि स्थापनाकुलानि तेषु गुरूणां सङ्घाटक एकः प्रविशति । यानि स्वग्रामे शेषाणि कुलानि तेषु बाल-वृद्धा-ऽसहिष्णुप्रभृतयो हिण्डन्ते । ये तु तरुणास्ते बहिर्गामे पर्यटन्ति । शिष्यः पृच्छति-किमादरेण क्षेत्रं प्रत्युपेक्ष्य रक्षथ ? । गुरुराहअगार्या दृष्टान्तोऽत्र क्रियते ॥ ५२९२ ॥
परिमियभत्तपदाणे, णेहादवहरति थोवथोवं तु ।
पाहुण वियाल आगत, विसण्ण आसासणा दाणं ।। ५२९३ ॥ एगो किविणवणिओ अगारीए अविस्ससंतो तंदुल-घत-लवण-कडुभंडादियं दिवसपरिव्वयं १°न्ते, गाथायामेकवचनं प्राकृतत्वात् , यदेव का० ॥ २ 'तद्' अर्धयोजनमपि भक्तपानानयनार्थ गम्य कां० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org