SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५२७९-८८] चतुर्थ उद्देशः । १४०५ खाध्यायेऽतीवोपयोगाद् विस्मृतम् । एवं लेपपरिकर्मणं कुर्वतः, वस्त्रं वा सीव्यतः, भाजनं वा परिकर्मयतः, देशकथादिकं वा सट्टरम्-आलजालं कुर्वतः, आदिशब्दः सट्टरस्यानेकभेदसूचकः । एतेषु यद् अत्यन्तव्यग्रत्वं स सहसाकारः, 'अनाभोगः' अत्यन्तविस्मृतिः । एवं सहसाकारेणानाभोगेन वा 'चरमां' चतुर्थी यावदतिकामितं भवेत् ॥ ५२८४ ॥ आहचुवाइणाविय, विगिंचण परिणऽसंथरंतम्मि। अन्नस्स गेण्हणं भुंजणं च असतीऍ तस्सेव ॥ ५२८५ ॥ एतैः कारणैः "आहच्च" कदाचिदतिक्रामितं भवेत् ततः 'विवेच्य' परित्यज्य परिज्ञा' दिवसचरमप्रत्याख्यानं कर्तव्यम् । अथ न संस्तरन्ति ततः काले पूर्यमाणे 'अन्यस्य' अशनादेर्ग्रहणं भोजनं च कर्तव्यम् । अथ कालो न पूर्यते न वा तदानीं पर्याप्तं लभ्यते ततः यतनया यथा अगीतार्थाः 'तदेवेदमशनादिकम्' इति न जानन्ति तथा तस्यैव परिभोगः कर्तव्यः॥५२८५॥10 बिइयपएण गिलाणस्स कारणा अधवुवातिणे ओमे । अद्धाण पविसमाणो, मज्झे अहवा वि उत्तिण्णो ॥ ५२८६ ।। द्वितीयपदे ग्लानस्य कारणात् प्रायोग्यं भक्तादिकमतिरिक्तमपि कालं धारयेत् , ग्लानकृत्ये वा तावद् व्यापृताः यावत् चरमपौरुषी जाता, अथवा अवमे पर्यटत एव चतुर्थी सञ्जाता, अध्वनि वा प्रविशन् सार्थवशगोऽतिकामयेत्, एवमध्वनो मध्ये वर्तमानस्ततो वा उत्तीर्णोऽ- 15 संस्तरन् अतिकामयेद् भुञ्जीत वा न कश्चिद् दोपः ॥ ५२८६ ॥ व्याख्यातं कालातिक्रान्तसूत्रम् । अथ क्षेत्रातिक्रान्तमूत्रं व्याख्यानयति परमद्धजोयणाओ, उजाण परेण चउगुरू होति । [नि.४१६८-९५] आणादिणो य दोसा, विराहणा संजमा-ऽऽयाए ॥ ५२८७ ॥ अर्धयोजनं-द्विगव्यूतं ततः परमशनादिकमतिकामयतश्चतुर्गुरु । आस्तां तावद् अर्धयोजनम् 20 अग्रोद्यानादपि परेणातिकामयतश्चतुर्गुरुकाः । आज्ञादयश्च दोषाः, संयमा-ऽऽत्मनोश्च विराधना ।। ५२८७ ।। तामेवाह भारेण वेदणाए, ण पेहती खाणुमादि अभिघातो। इरिया पगलिय तेणग, भायणभेदो य छकाया ॥ ५२८८ ॥ भारेणाक्रान्तो वेदनाभिभूतः स्थाणु-कण्टकादीनि न प्रेक्षते, अश्वादिभिर्वाऽभिहन्यते, अथवा 25 "अभिघाउ" ति वटशाखादिना शिरसि घट्यते, ईयाँ वा न शोधयति, दूरनयनेन च भक्तपाने परिगलिते पृथिव्यादिविराधना, स्तेनैर्वा समुद्देशो हियेत । क्षुधा-पिपासार्तस्य वा क्षीणबलस्य भाजनभेदो भवेत् तत्र षट्कायविराधना । आत्मनः परस्य च तेन विना परिहाणिः ॥ ५२८८॥ परः प्राह १ तत एवमन्यस्य 'असति' अभावे यत' कां० ॥ २ एतदनन्तरम् अथात्रैव द्वितीयपदमाह इत्यवतरणं कां० ॥ ३ "विइयपएणं" ति सप्तम्यर्थे तृतीया। द्वितीय का० ॥ ४ ता. अतस्तत्रापि उपानाययेत्, चरमपौरुषीमित्यर्थाद् गम्यते । अध्वनि कां ॥ ५ एतदनन्तरं ग्रन्थानम्-२५०० कां ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy