SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १४०४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ काल०प्रकृते सूत्रम् १६-१७ भण्णति सज्झमसझं, कजं समं तु साहए मतिमं । अविसझं साधेतो, किलिस्सति ण तं च साधेति ॥ ५२७९ ॥ भण्यतेऽत्र प्रतिवचनम्-कार्य द्विविधम्-साध्यमसाध्यं च । तत्र मतिमान् साध्यमेव कार्य साधयति नासाध्यम् । तुशब्द एवकारार्थः । यस्तु युष्मादृशोऽविसाध्यं साधयति स 5 केवलं क्लिश्यति न च तत् कार्य साधयति, यथा मृत्पिण्डेन पटादिसाधनाय प्रवर्तमानः पुरुष इति, असाध्यं चात्र भिक्षाचर्यादावपर्यटनम् ॥ ५२७९ ॥ कुतः ? इति चेद् उच्यते जति एयविप्पहूणा, तव-णियमगुणा भवे निरवसेसा । आहारमादियाणं, को नाम कहं पि कुव्वेजा ॥ ५२८० ॥ यदि एतैः-आहारादिभिर्विविधं प्रकर्षेग हीनाः-रहितास्तपो-नियमगुणा निरवशेषा भवेयुः 10तत आहारादीनां को नाम कथामपि कुर्यात् ? अत आहारग्रहणार्थ भिक्षायामटनीयमिति प्रक्रमः । एतेन "अहवा आहारादी" (गा०५२७८) इत्याद्यपि प्रत्युक्तं द्रष्टव्यम् ॥ ५२८०॥ इदमेव सविशेषमाह मोक्खपसाहणहेतू, णाणाती तप्पसाहणो देहो । देहहा आहारो, तेण तु कालो अणुण्णातो ॥ ५२८१ ॥ 18 इह मोक्षप्रसाधनहेतवः 'ज्ञानादीनि' ज्ञान-दर्शन-चारित्राणि, तेषां च प्रसाधनो देहो भवति, अतो देहार्थमाहार इप्यते । स च काले गृह्यमाणो धार्यमाणो वा चारित्रस्यानुपघातको भवति, तेन कारणेन कालोऽनुज्ञातः ॥ ५२८१ ॥ कथम् ? इत्याह काले उ अणुण्णाए, जति वि हु लग्गेज तेहिँ दोसेहिं । सुद्धो वुवादिणंतो, लग्गति उ विवजऍ परेणं ॥ ५२८२ ॥ 20 आद्यप्रहरत्रयलक्षणो द्वितीयादिपौरुषीत्रयात्मको वा कालो भक्त-पानादेर्धारणेऽनुज्ञातः । एवंविधेऽनुज्ञाते काले यद्यपि 'तैः' पूर्वोक्तैदोषैः 'लग्येत' स्पृश्येत तथापि शुद्धः । अनुज्ञातकालात् परेण 'उपानाययन्' अतिक्रामयन् 'विपर्यये' अविद्यमानेष्वपि दोषेषु 'लगति' सप्रायश्चित्तो मन्तव्यः ॥ ५२८२ ॥ पढमाएँ गिहितूणं, पच्छिमपोरिसि उवादिणति जो उ । ते चेव तत्थ दोसा, वितियाए जे भणिय पुचि ॥ ५२८३ ॥ प्रथमायां पौरुष्यां गृहीत्वा पश्चिमां पौरुषी योऽतिकामयति तत्र त एव दोषा ये पूर्व प्रथमायां गृहीत्वा द्वितीयायामतिकामयतो जिनकल्पिकस्य भणिताः ॥ ५२८३ ॥ अमूनि चातिक्रामणकारणानि सज्झाय-लेव-सिव्वण-भायणपरिकम्म-सट्टरादीहिं । सहस अणाभोगेण व, उवादियं होज जा चरिमं ॥ ५२८४ ॥ १ "काले उ" त्ति तुशब्दो विशेषणे, स चैतद विशिनष्टि-आद्य' का० ॥ २ °श्चित्तो भवतीत्यर्थः ॥५२८२॥ इदमेवान्यपदं भावयति-पढमाए कां ० ॥३त्वा यः साधुरुपानाययति तत्र का० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy