________________
भाष्यगाथाः ५२७०-७८] चतुर्थ उद्देशः ।
१४०३ १ गाथायामेकवचनं प्राकृतत्वात् । अथवा » "जहासमाहि" ति प्रथमपौरुष्यां लब्धं परमद्याप्यजीर्णं ततो यावज्जीर्यते तावद्धारयेदपि । एवं यथा यथा समाधिर्भवति तथा तथा भुञ्जीत परं चरमावर्जम् , चतुर्थी पौरुषी नातिकामयेदिति भावः ॥ ५२७३ ॥ तत्र च धार्यमाणे इयं यतना
संसजिमेसु छुब्भइ, गुलाइ लेवा. इयरे लोणाई ।
जं च गमिस्संति पुणो, एसेव य भुत्तसेसे वि ।। ५२७४ ॥ 'संसजिमेषु' संसक्तियोग्येषु 'लेपकृतेषु' गोरसादिद्रव्येषु गुडादिकं प्रक्षिप्यते येन न संसज्यन्ते । इतरन्नाम-अलेपकृतं तद् यदि संसक्तियोग्यं तदा तत्र लवणादिकं प्रक्षिपेद् न गुडम् । यच्च प्रथमपौरुष्यां द्वितीयपौरुष्यां वा भुक्त्वा पुनः गमयिष्यन्ति, कियतीमपि वेलां प्रतीक्ष्य भूयो भोक्ष्यन्त इत्यर्थः, तत्रापि भुक्तशेषे धार्यमाणे 'एष एव' गुडादिप्रक्षेपणरूपो 10 विधिर्भवति ॥ ५२७४ ॥
___ चोएइ धरिजंते, जइ दोसा गिण्हमाणि किन्न भवे ।
उस्सग्ग वीसमंते, उभामादी उदिक्खते ॥ ५२७५ ॥ 'नोदयति' प्रेरयति परः-यद्येवं भक्त-पाने धार्यमाणे दोषास्ततो भक्तादौ गृह्यमाणे किमेते श्वान-गवादयो दोषा न भवन्ति ? भवन्त्येव । तथा कायोत्सर्ग कुर्वतोऽपि त एव बाहुपरि-16 तापनादयश्च दोषाः, एवं विश्राम्यतोऽपि त एव दोषाः, उद्धामकभिक्षाचर्या ये गतास्तदादीनपि "उदिक्खंते" त्ति प्रतीक्षमाणस्य त एव दोषाः ॥ ५२७५ ॥ पर एव प्राह --
एवं अवातदंसी, थूले वि कहं ण पासह अवाये ।
हंदि हु णिरंतरोऽयं, भरितो लोगो अवायाणं ॥ ५२७६ ॥ यद्येवं यूयमपि 'अपायदर्शिनः' सूक्ष्मानप्यपायान् प्रेक्षध्वे ततः स्थूलानपि भिक्षाचर्यादि- 20 विषयानपायान् कथं न पश्यथ ?, 'हन्दीति' उपदर्शने, 'हु' निश्चितम् , पश्यन्तु भगवन्तो यद् एवं निरन्तरोऽप्ययं लोकोऽपायानां भृतः ॥ ५२७६ ॥ कथम् ? इति चेद् उच्यते
भिक्खादि-वियारगते, दोसा पडिणीय-साणमादीया। .
उपजते जम्हा, ण हु लम्मा हिंडिउं तम्हा ॥ ५२७७ ॥ भिक्षा-विचारादौ गतानां साधूनां प्रत्यनीक श्वान-गवादयो बहवो दोषा यस्मादुत्पद्यन्ते 25 तस्माद् 'नहि' नैव साधुना हिण्डितुं लभ्यम् ॥ ५२७७ ॥
अहवा आहारादी, ण चेव णिययं हवंति घेत्तव्वा ।
णेवाऽऽहारेयव्वं, तो दोसा वज्जिया होंति ॥ ५२७८ ॥ अथवाऽऽहारादयः 'नियतं' सर्वदा न ग्रहीतव्या भवन्ति किन्तु चतुर्थ-षष्ठादिकं कृत्वा सर्वथैवाशक्तेनाहारो ग्राह्यः । यद्वा नैव कदाचिदप्याहारयितव्यम् । एवं 'दोषाः' अपायाः 30 सर्वेऽपि वर्जिता भवन्ति ॥ ५२७८ ॥ एवं परेणोक्ते सुरिराह. १ » एतन्मध्यगतः पाठः का० एव वर्तते ॥ २ °म् , तदपि युष्माकं न बुध्यत इत्यर्थः ॥ कां०॥ ३ ष्ठा-ऽष्टमादिकं कां.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org