________________
१४०२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ काल०प्रकृते सूत्रम्१६-१७ 'स्थापयतः' निक्षिपतश्च ये दोषाः, ये च गृहीतेन कार्याणि कुर्वतो भाजनभेदप्रभृतयो दोषाः, ये च परिष्ठापयतो दोषास्तेऽपि वक्तव्या इति ॥ ५२६८ ॥ ___ यत एतावन्तो दोषाः तस्माद् यस्यामेव पौरुष्यां गृहीतं तस्यामेव भोक्तव्यम् । एवं कुर्वता 'दोषाः' पूर्वोक्ता वर्जिता भवन्ति । परः प्राह-नन्वेवं शोधिर्न विद्यते यतः "महणे वि" त्ति यावद् भिक्षां गृह्णाति तावदेव द्वितीयां पौरुषीं प्राप्नोति ॥ ५२६९ ॥ सूरिराह
एवं ता जिणकप्पे, गच्छम्मि चउत्थियाएँ जे दोसा ।
इतरासि किण्ण होती, दव्वे सेसम्मि जतणाए ॥ ५२७० ॥ एवं तावजिनकल्पिकानामुक्तं यदुत 'यस्यामेव गृहीतं तस्यामेव भोक्तव्यम्' । गच्छवासिनस्तु प्रथमायां गृहीत्वा यदि चतुर्थीमतिकामयन्ति तदा ये सञ्चयादयो दोषा उक्तास्तान् प्रामुवन्ति । 10 भूयोऽपि परः प्रेरयति-'इतरयोः' द्वितीय-तृतीययोः पौरुष्योरशनादि द्रव्यं धारयतां किमेते दोषा न भवन्ति ? । गुरुराह-भवन्ति, परं द्रव्ये भुक्तशेष कारणे यतनया धार्यमाणे दोषा न भवन्ति ॥ ५२७० ॥ कथं पुनस्तदुद्वरितं भवति ? इत्याह
पडिलाभणा बहुविहा, पढमाऍ कदाचि णासिमविणासी ।
तत्थ विणासिं मुंजेऽजिणें परिणे य इतरं पि ॥ ५२७१॥ 15 अभिगतश्राद्धेन दानश्राद्धेन वा क्वचित् प्रकरणे प्रथमपौरुण्यां बहुविधा प्रतिलाभना कृता,
बहुभिर्भक्ष्य-भोज्यद्रव्यरित्यर्थः । तच्च द्रव्यं द्विवा–विनाशि अविनाशि च । क्षीरादिकं विनाशि, अवगाहिमादिकमविनाशि । तत्र यद् विनाशि द्रव्यं तद् नमस्कार-पौरुषीप्रत्याख्यानवन्तो भुञ्जते । शेषसाधूनां यद्यजीर्ण यदि वा तैः परिज्ञातं-तस्या विकृतेः प्रत्याख्यानं कृतम् अभक्ताओं वा प्रत्याख्यातः आत्मार्थिका वा ते ततः 'इतरदापि' अविनाशि द्रव्यमपि 20 भुञ्जते ॥ ५२७१ ॥ अमुमेवार्थ व्याचष्टे
जइ पोरिसित्तया तं, गमेंति तो सेसगाण ण विसले ।
अगमेंताऽजिण्णे वा, धरति तं मत्तगादीसु ॥ ५२७२ ॥ यदि पौरुषीप्रत्याख्यानवन्तस्तद् द्रव्यं सर्वमपि 'गमयन्ति' निर्वाहयितुं शक्नुवन्ति ततः 'शेषाणां' पूर्वार्द्धप्रत्याख्यानिनां 'न विसर्जयेयुः' न दद्युः । अथ ते सर्वमपि न गमयन्ति ततः 25 पूर्वार्द्धप्रत्याख्यानिनामपि दीयते । अथ तेषामप्यजीर्णं ततो मात्रकादिषु 'तद्' अशनादिकं धारयन्ति ॥ ५२७२ ॥ अथवाऽमुना कारणेन धारयेत्
तं काउ कोइ न तरइ, गिलाणमादीण दाउमचुण्हे ।
नाउं व बहुं वियरइ, जहासमाहिं चरिमवजं ॥ ५२७३ ॥ 'तद्' अशनादिकं 'कृत्वा' भुक्त्वा कश्चिद् ग्लानादीनां प्रायोग्यमानीय दातुम् 'अत्युष्णे' 30 अतीवातपे चटिते न शक्नोति, एतेन कारणेन धारयेत् । यद्वा 'बहु' प्रभूतं भैक्षं लब्धं ततः 'मा परिष्ठापयितव्यं भवेद्' इति ज्ञात्वा गुरवोऽशनादेर्धरणं वितरन्ति, अनुजानन्तीत्यर्थः ।
१ कदापि णा तामा० ॥ २ ति ते म° मो० डे० ॥ ३°न्तः, उपलक्षणमिवम् , तेन नमस्कारसहितप्रत्याख्यानवन्तो वा तद् द्रव्यं का० ॥ ४°ति कृत्वा कां•॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org