________________
भाष्यगाथाः ५२६३-६९] चतुर्थ उद्देशः ।
१४०१ द्रवभाजनव्यग्रहस्त उत्थातुमशक्नुवन् ताभ्यां खाद्येत । 'गौः' बलीवर्दस्तेन वा हन्येत । अत्राऽऽत्मविराधनानिष्पन्नं चतुर्मुरु । तद्भयेन च इतस्ततः स्पन्दमानो भाजनं भिन्द्यात् तत्र चतुर्लघु । तेन च विना या परिहाणिस्तन्निष्पन्नम् । अथैतेषां भयान्निक्षिपति ततश्चतुर्लघु ॥ ५२६४ ॥
"अगणि" त्ति अमावुत्थिते भाजनभारव्यापृतत्वेनानिर्गच्छन् दह्येत, तत्प्रतिबन्धेन वा उपधेर्दाहो भवेत् तत्रोपधिनिष्पन्नं प्रायश्चित्तम् । ग्लानस्य वैयावृत्यमुद्वर्तनादिकं भारव्यापूतो न । करोति, अक्रियमाणे परितापनादिकं स प्रामुयात् तन्निप्पन्नं चतुर्लघुकादि पाराञ्चिकान्तम् , अथ निक्षिप्य करोति ततो मासलघु । तेन परिगृहीतेनोच्चारं व्युत्स्रष्टुं न शक्नोति ततो धारयतो ग्लानत्वारोपणा, अथ गृहीतेन व्युत्सृजति तत उड्डाहः । गुरूणां प्राघुणकस्य चाऽभ्युत्थानं न करोति चतुर्लघु, अथ करोति ततो भाजनभेदादयो दोषाः । भृतभाजनधारणे गात्रनिरोधेनासमाधिर्भवेत् । तथा स्वाध्यायं न प्रस्थापयति । आचार्यादीनां पादप्रक्षालनादिकं बिनयं न 10 करोति । कायिकी न व्युत्सृजति, गृहीतेन वा व्युत्सृजति । प्रचलायमानस्य वा भाजनं प्रलुठेत् , तस्य च प्रलोठने पानकादिना प्लाव्यमानाः प्राणिनो विपद्यन्ते ॥ ५२६५ ॥ अथामूनेव सञ्चयादिदोषान् व्याचष्टे
निस्संचया उ समणा, संचयि तु गिहीव होंति धारेता।
संसर्ने अणुवभोगो, दुक्खं च विगिचिउं होति ॥ ५२६६ ॥ 15 निस्सञ्चयाः श्रमणा उच्यन्ते, ततो यदि तेऽपि गृहीत्वा धारयन्ति तदा गृहिण इव सञ्चयिनो भवन्ति । चिरं चावतिष्ठमानं तद् भक्त-पानं संसज्येत । संसक्तं च साधूनामुपभोक्तुं न कल्पते, 'विवेक्तुं च' परिष्ठापयितुं तद् दुःखं भवति, यतस्तत्र परिष्ठाप्यमाने यैः प्राणिभिः 'संसक्तं ते विनाशमश्नुवते ॥ ५२६६ ॥
एमेव सेसएसु वि, एगतर विराहणा उभयतो वि।
असमाधि विणयहाणी, तप्पच्चयनिञ्जराए य॥ ५२६७ ॥ एवमेव 'शेषेष्वपि' दीर्घादिषु द्वारेषु भावना कर्तव्या, सा च प्रागेव कृता । तथा 'एकतरस्य' साधो जनस्य वा विराधना दीर्घजातीयादिषु भवति । उभयम्-आत्मा संयमश्चेति द्वयं तस्य विराधना उभयविराधना । “असमाहि" त्ति अगिना दह्यमानस्यासमाधिमरणं भारेणाक्रान्तस्य वा असमाधिः-दुःखेनावस्थानं भवेत् । गुरुप्रभृतीनां च विनयहानि कुर्वतस्तत्प्रत्यय-25 निर्जराया अपि हानिर्भवति ॥ ५२६७ ॥
पच्छित्तपरूवणता, एतेसि ठवेंतए य जे दोसा । गहितकरणे य दोसा, दोसा य परिहवेंतस्स ।। ५२६८॥ तम्हा उ जहिं गहितं, तहिँ भुंजणें वज्जिया भवे दोसा।
एवं सोधि ण विजति, गहणे वि य पावती बितियं ॥ ५२६९॥ 30 'एतेषां' सञ्चयादीनां सर्वेषामपि प्रायश्चित्तप्ररूपणा कर्तव्या, सा च प्रागेव लेशतः कृता । १°द्यन्ते । एतेषु सर्वेष्वपि यथायोगं तनिष्पन्नं प्रायश्चित्तम् ॥ कां० ॥ २ वा "उभयतो वि" त्ति उभयस्य वा विराधना दीर्घजातीयादिपु भवति । अथवा उभयम् कां० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org