________________
6
१४००
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ काल० प्रकृते सूत्रम् १६-१७
नो कप्पइ निग्गंथाण वा २ असणं वा ४ परं अद्धजोयणमेरा उवायणावित्तए । से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुंजिजो जाव आवइ चाउमा सियं परिहारट्ठाणं उग्वाइयं १७ ॥
अस्य सूत्रद्वयस्य सम्बन्धमाह
भावस्स उ अतियारो, मा होज इती तु पत्थुते सुत्ते । कालस्स य खेत्तस्स य, दुबे उ सुत्ता अणतियारे ।। ५२६३ ।।
'भावस्य' ब्रह्मव्रतपरिणामस्य 'अतिचारः' अतिक्रमो मा भूदिति अनन्तरंप्रस्तुते सूत्रे प्रतिपादिते। अथ कालस्य च क्षेत्रस्य चाति चारः - अतिक्रमो मा भूदिति द्वे सूत्रे प्रारभ्येते ॥ ५२६३॥ 10 अनेन सम्बन्धेनायातस्यास्य व्याख्या -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अशनं वा पानं वा खादिमं वा खादिमं वा प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमां पौरुषीं "उवाइणावित्तए" चि 'उपानाययितुं' सम्प्रापयितुमिति । तच्च " आहच्च" कदाचिदू उपनायितं स्यात् ततः ‘तद्’ अशनादिकं नाऽऽत्मना भुञ्जीत न वा अन्येषां साधूनामनुप्रदद्यात् । किं पुनस्तर्हि विधेयम् ? इत्याह-एकान्ते बहुप्रा के स्थण्डिले प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन परि15 ष्ठापयितव्यं स्यात् । तद् आत्मना भुञ्जानोऽन्येषां वा ददान आपद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकम् ॥
:--
20
एवं क्षेत्रातिक्रान्तसूत्रमपि वक्तव्यम् । नवरम् — अर्द्धयोजनलक्षणाया मर्यादाया अतिक्रामयितुमशनादिकं न कल्पते । स्यात् तदुपानायितं भवेत् ततो यः स्वयं तद् भुङ्क्तेऽन्येषां वा ददाति तस्य चतुर्लघुकमिति सूत्रद्वयार्थः ॥ अथ निर्युक्ति विस्तरःवितियाउ पढम पुव्विं, उवातिणे चउगुरुं च आणादी । दोसा संचय संसत दीह साणे य गोणे य ॥ ५२६४ ॥ अगणि गिलाणुच्चारे, अन्भुट्ठाणे य पाहुण णिरोधे । सज्झाय विषय काय, पयलंत पलोट्टणे पाणा ॥। ५२६५ ।। [नि. ४१४२-६३ ] आस्तां तावत् पश्चिमा चतुर्थी पौरुषी किन्तु द्वितीयायाः पौरुष्याः प्रथमाऽपि पूर्वा भव्यते 26 प्रथमायाश्च द्वितीया पाश्चात्या, एवं तृतीयाया द्वितीया पूर्वा द्वितीयायास्तृतीया पाश्चात्या, चतुर्थ्यास्तृतीया पूर्वा तृतीयस्याश्चतुर्थी पश्चिमा । ततः प्रथमायाः पौरुण्या द्वितीयायामशनादिकमतिक्रामयतश्चतुर्गुरुकम्, आज्ञादयश्च दोषाः । तथा सञ्चयो भवति । चिरं चावति - ष्ठमानं तदशनादिकं प्राणिभिः संसक्तं भवति । दीर्घजातयो वा श्वा वा समागच्छेत् ततः स
Jain Education International
१° जा, नो अन्नेसिं अणुपपजा, एगंते बहुफासुए पपसे पडिलेहित्ता पमजित्ता परिवेयव्वे सिया । तं अप्पणा भुंजमाणे अन्नेसिं वा दलेमाणे आवज्जइ कां० ॥ २°रमेव द्वे सूत्रे 'प्रस्तुते' प्रति' कां० ॥ ३ 'शुक्रे प्रदेशे प्रत्यु' कां० ॥ ४°म्, चतुर्लघुकमित्यर्थः । एवं कां० ॥
For Private & Personal Use Only
www.jainelibrary.org