________________
भाष्यगाथाः ५२६०-६२ ]
चतुर्थ उद्देशः ।
१३९९
'तासां' निर्ग्रन्थीनां सम्बन्धी “कुल" ति एककुलोद्भवो भ्राता रूपवान् प्रव्रजितस्तस्यापि क्रमेण भक्तपरिज्ञा सञ्जाता ।। ५२६० ॥ इदमेव व्याचष्टे
विलकुले पव्वते, कप्पट्ठग किढियकालकरणं च ।
जोवण तरुणी पेण, भगिणी सारक्खणा वीसुं ॥ ५२६१ ॥ सो चैव य पडियरणे, गमतो जुवतिजण वारण परिण्णा । कालगतो त्ति समोहतों, उज्झण गणिया पुरिसवेसी ॥ ५२६२ ॥ कापि विपुलकुले समुद्भूतं भगिनीद्वयं प्रव्रजितम् । ततः कुलवंशस्तथैव सर्वोऽपि प्रक्षीणः । नवरमेकः कल्पस्थको जीवति । ततः संज्ञातकदर्शनायागतेन तेनार्यिकाद्वयेन किटिका - स्थविरा मातेत्यर्थः तत्प्रभृतिकुटुम्बस्य कालकरणं श्रुतम् । स च कल्पस्थकः प्रव्राज्य गुरूणां दत्तः । यौवनं च प्राप्तोऽसावतीव रूपवान् समजनि, ततस्तरुणीभिः प्रेर्यते । ततो गुरूणामाज्ञया ते 10 भगिन्यौ विष्वगुपाश्रये नीत्वा संरक्षितवत्यौ ॥ ५२६१ ॥
कथम् ? इत्याह- स एव 'प्रतिचरणे' रक्षणे गमो भवति यः सुकुमारिकाया उक्तः । एवं युवतिजनवारणे क्रियमाणे तस्य भगिनीदुःखं तथाविधं दृष्ट्वा भक्तपरिज्ञा । ततः 'समवहतः ' कालगत इति विज्ञाय 'उज्झनं ' परिष्ठापनम् । तस्य च स्त्रीस्पर्शेन समाश्वासितस्य पुनश्चैतन्ये सञ्जाते पुरुषद्वेषिण्या गणिकया ग्रहणम् । ततस्तस्याः पतिः सञ्जातः । कियत्यपि काले गते 15 समागताभ्यां भगिनीभ्यां प्रत्यभिज्ञाय भूयः प्रत्राजित इति ॥ ५२६२ ॥
॥ ग्लानप्रकृतं समाप्तम् ॥
काल क्षेत्रा ति क्रान्त प्रकृतम्
सूत्रम् -
नो कप्पड़ निग्गंथाण वा निग्गंथीण वा असणं वा पाणं वा खाइमं वा साइमं वा पढमाए पोरिसीए पडिग्गाहिता पच्छिमं पोरिसिं उवाइणावित्तए । से य आहच उवाइणाविए सिया तं नो अप्पणा भुंजिजा, नो अन्नेसिं अणुप्पएजा, एगंते बहुफासु ऐ थंडिले पडिलेहित्ता पमजित्ता परिवेयब्वे सिया । तं अपणा भुंजमाणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं १६ ॥
5
१ 'रक्षणं तस्य कृतव' कां० ॥ २ ते रूपवान् इति कृत्वा पुरु° को० ॥ ३ ए परसे पडि को० । एतदनुसारेणैव कां० टीका, दृश्यतां पत्रं १४०० टिप्पणी ३ ॥
Jain Education International
For Private & Personal Use Only
20
25
www.jainelibrary.org