________________
15
भाष्यगाथाः ५२४१-४९] चतुर्थ उद्देशः ।
१३९५ सम्बन्धेन निजका गृहस्थतां परित्यज्य तदन्तिके प्रव्रजिता, सा चानीयमाना पथि वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता ॥ ५२४४ ॥ तत्रेयं यतना
माता भगिणी धूता, तधेव सण्णातिगा य सड्डी य ।
गारत्थि कुलिंगी वा, असोय सोए य जयणाए ॥ ५२४५ ॥ तस्याः संयत्या या माता भगिनी दुहिता वा तया तस्या उत्थापनादिकं कार्यते । एतासा-5 मभावे या तस्याः 'संज्ञातका' भागिनेयी-पौत्रीप्रभृतिका तया कार्यते । तस्या अभावे श्राद्धिकया । तदभावे गृहस्थया यथाभद्रिकया कुलिङ्गिन्या वा कार्यते । तावपि प्रथममशौचवादिनीभिः, ततः शौचवादिनीभिरपि यतनया कारयितव्यम् ॥ ५२४५ ॥
एयासिं असतीए, अगार सण्णाय णालबद्धो य ।
समणो वऽनालबद्धो, तस्सऽसति गिही अवयतुल्लो ।। ५२४६ ॥ 10 एतासां स्त्रीणामभावे योऽगारः 'संज्ञातकः' तस्याः खजनः, स च मातुल-पुत्रादिरपि स्याद् अतस्तत्प्रतिषेधार्थमाह-'नालबद्धः' वल्लीबद्धः, पितृ-भ्रातृ-पुत्रप्रभृतिक इत्यर्थः, स उत्थापनादिकं तस्याः कार्यते । तदभावे श्रमणोऽपि यस्तस्या नालबद्धो असमानवयाः । तस्यासति अनालबद्धोऽपि यो गृही वयसा अतुल्यः स कार्यते ॥ ५२४६ ॥
दोन्नि वि अनालबद्धा उ, जुजंती एत्थ कारणे ।
किढी कण्णा विमज्झा वा, एमेव पुरिसेसु वि ॥ ५२४७ ॥ नालबद्धाभावे 'द्वावपि' स्त्री-पुरुषावनालबद्धावपि 'कारणे' आगाढे उत्थापनादिकं कारयितुं युज्यन्ते । तत्रापि प्रथमं "किढि" ति स्थविरा स्त्री कार्यते । तदभावे कन्यका । तदप्राप्तौ मध्यमा । एवं पुरुषेष्वपि वक्तव्यम् ॥ ५२४७ ॥ अमुमेवार्थ पुरातनगाथया व्याख्यानयतिअसईय माउवग्गे, पिता व भाता व से करेजाहि।
20 दोण्ह वि तेसिं करणं, जति पंथे तेण जतणाए ॥ ५२४८॥ मातृवर्गों नाम-स्त्रीजनः तस्याभावे यः तस्याः संयत्याः सम्बन्धी पिता वा भ्राता वा स उत्थापनादिकं करोति । "दोण्ह वि" इत्यादि, द्वयोरपि तयोः करणम् , किमुक्तं भवति :पथि वर्तमानायाः प्राप्ताया वा अथवा निजकाया वा अनिजकाया वा अनन्तरोक्तविधिना तस्या उत्थापनादिकं कर्तव्यम् । यदा च पथि ग्लाना संवृत्ता तदा खयमेव 'यतनया' 25 गोपालकञ्चुकतिरोधानरूपया तस्याः परिकर्म करोति ॥ ५२४८॥ अथवा "दोण्ह वि" त्ति विभक्तिव्यत्ययाद् द्वाभ्यामपि द्रष्टव्यम् । तत्रायमर्थः
थी पुरिस णालऽणाले, सपक्ख परपक्ख सोयऽसोये य ।
आगादम्मि उ कले, करेति सव्वेहि जतणाए ॥ ५२४९ ॥ आगाढे कार्ये स्त्रिया वा पुरुषेण वा नालबद्धेन वा अनालबद्धेन वा खपक्षेण वा परपक्षेण 30 १ "एतदेवार्थ इमीए पुरातनाए गाहाए वक्खाणेइ-'असईय माउवग्गे' गाहा ॥” इति विशेषचूर्णौ ॥ २ तस्मिन् 'असति' अविद्यमाने यः कां ॥ ३ कार्ये आत्यन्तिके ग्लान्ये का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org