SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १३९४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ग्लानप्रकृते सूत्रम् १४-१५ परिष्वजतश्चतुर्लघव एव 'द्वाभ्यामपि' तपः-कालाभ्यां लघवः ॥ ५२४० ॥ मिच्छत्ते उड्डाहो, विराहणा फास भावसंबंधो। आतंको दोण्ह भवे, गिहिकरणे पच्छकम्मं च ॥ ५२४१॥ निर्ग्रन्थं निर्ग्रन्थी परिष्वजन्तं दृष्ट्वा यथाभद्रकादयो मिथ्यात्वं गच्छेयुः, एते यथा वादिनस्तथा कारिणो न भवन्ति । उड्डाहो वा भवेत् , एते संयतीभिरपि सममब्रह्मचारिणः । एवं शकायां चतुर्गुरु, निःशङ्किते मूलम् । एवं प्रवचनस्य विराधना भवेत् । तेन वा स्पर्शेण द्वयोरपि मोहोदये सञ्जाते भावसम्बन्धोऽपि स्यात् , ततश्च प्रतिगमनादयो दोषाः । आतको वा द्वयोरन्यतरस्य भवेत् स परिष्वजने सङ्क्रामेत् । गृहस्थस्य च परिष्वजनकरणे पश्चात्कर्मदोषो भवेत् ॥ ५२४१ ॥ इदमेव पश्चाद्धं व्याचष्टे10 कोढ खए कच्छु जरे, अवरोप्पर संकमंते चउभंगो । इत्थीणाति-सुहीण य, अचियत्तं गिण्हणादीया ॥ ५२४२॥ कुष्ठ-क्षत-कच्छू-ज्वरप्रभृतिके रोगे परस्परं सङ्क्रामति चतुर्भङ्गी भवति - संयतस्य सम्बन्धी कुष्ठादिः संयत्याः सङ्कामति १ संयत्याः सम्बन्धी वा संयतस्य सङ्ग्रामति २ द्वयोरप्यन्योन्यं सामति ३ द्वयोरपि न सङ्क्रामति ४ । अत्राद्यभङ्गत्रये रोगसङ्क्रमणकृताः परितापनादयो 18दोषाः । तथा "इत्थी" इत्यादि, तस्याः स्त्रियः सम्बन्धिनो ये ज्ञातयो ये च सुहृदस्तेषामप्रीतिकं भवति- किमयं श्रमणोऽस्मत्सम्बन्धिनीमित्थमालिङ्गति ? इति । ततश्च ग्रहणाऽऽकर्षणादयो दोषाः ॥ ५२४२ ॥ गिहिएसु पच्छकम्म, भंगो ते चेव रोगमादीया । संजय असंखडादी, भुत्ता-ऽभुत्ते य गमणादी ॥ ५२४३ ॥ 20 गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, 'संयतेन स्पृष्टोऽहम्' इति कृत्वा गृहस्थः खानं कुर्यादिति भावः । अविरतिकायाः परिष्वङ्गे भावसम्बन्धोऽपि जायेत, ततश्च 'भङ्गः' ब्रह्मचर्यविराधना भवेत् , रोगसङ्क्रमणादयश्च त एव दोषाः । संयतं तु परिष्वजतस्तेन सहासङ्खडादयो दोषाः । भुक्तभोगिनश्च स्मृतिकरणेनाभुक्तभोगिनः कौतुकेन प्रतिगमनादयो दोषाः । एवं तावन्निष्कारणेऽग्लानायाश्चोक्तम् ॥ ५२४३ ॥ एमेव गिलाणाए, सुत्तऽफलं कारणे तु जयणाए । कारणे एग गिलाणा, गिहिकुल पंथे व पत्ता वा ॥ ५२४४॥ एवमेव ग्लानाया अपि संयत्याः परिष्वजने क्रियमाणे दोषजालं मन्तव्यम् । परः प्राहनन्वेवं सूत्रमफलं प्राप्नोति, तत्र हि परिष्वजनमनुज्ञातं स्वादनं पुनः प्रतिषिद्धम् । सूरिराह कारणे यतनया क्रियमाणे परिष्वजने सूत्रमवतरति । कथं पुनस्तस्य सम्भवः ? इत्याह-कारणे 30 काचिदार्यिका “एग" ति एकाकिनी संवृत्ता, सा च पश्चाद् ग्लानीभूता, "गिहिकुल" ति गृहस्थकुलानिश्रया सा स्थिता, अथवा “गिहिकुल" ति सा तस्यैककुलसमुद्भूता भगिन्यादि १°ता अनागाढा-ऽऽगाढपरि का० ॥ २२ एतन्मध्यगतः पाठः कां० एव वर्तते ॥ ३ कुलनिश्र° का० । “गिहिकुल त्ति सा गिहत्थकुलं णिस्साए ठिया” इति चूाँ विशेषचूर्णो च ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy