________________
दशः ।
भाष्यगाथाः ५२३६-४०] चतुर्थ उद्देशः ।
१३९३ दुष्टतादिभिर्दोषैः उपहतः-दूषितः भावः-परिणामो यस्य तदुपड़तभावम् , एवंविधं सचित्तं द्रव्यं प्रव्राजनादौ "इय" एवमनन्तरसूत्रे निवारितम् । इहापि ग्लानसूत्रे शुभभावस्य परिष्वजनानुमोदनलक्षणस्य 'संवरणं' निवारणं विधीयते । अयं 'योगः' सम्बन्धः ॥ ५२३६ ॥
अनेनायातस्यास्य व्याख्या---'निर्ग्रन्थीं' प्रागुक्तशब्दार्थाम् , चशब्दो वाक्यान्तरोपन्यासे, "f" इति वाक्यालङ्कारे, "गिलायमाणिं" ति 'ग्लायन्ती' "ग्लै हर्षक्षये" शरीरक्षयेण हर्षक्ष-5 यमनुभवन्तीं पिता वा भ्राता वा पुत्रो वा निर्ग्रन्थः सन् 'परिष्वजेत्' प्रपतन्तीं धारयन् निवेशयन् उत्थापयन् वा शरीरे स्पृशेत् , 'तं च' पुरुषस्पर्श सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता 'खादयेत्' अनुमोदयेत् तत आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥
एवं निर्ग्रन्थसूत्रमपि व्याख्येयम् । नवरम् -माता वा भगिनी वा दुहिता वा परिष्वजेत् , एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः-तत्र परः प्राह-ननु 'पुरुषोतमो धर्मः' इति कृत्वा 10 प्रथमं निम्रन्थस्य सूत्रमभिधातव्यं ततो निम्रन्थ्याः, अतः किमर्थं व्यत्यासः ? इत्याह
कामं पुरिसादीया, धम्मा सुत्ते विवञ्जतो तह वि।
दुब्बल-चलस्सभावा, जेणित्थी तो कता पढमं ॥ ५२३७॥ 'कामम्' अनुमतमिदम्-यत् 'पुरुषादयः' पुरुषमुख्या धर्मा भवन्ति, तथापि सूत्रे विपर्ययः कृतः । कुतः ? इत्याह-दुर्बला-धृतिबलविकला चलखमावा च स्त्री येन कारणेन 16 भवति ततः प्रथममसौ कृता इत्यदोषः ॥ ५२३७ ॥
वइणि त्ति णवरि णेम्मं, अण्णा वि ण कप्पती सुविहियाणं ।
____अवि पसुजाती आलिंगिउं पि किमु ता पलिस्सइउं ॥ ५२३८ ॥ __इह सूत्रे यद् 'व्रतिनी' निर्ग्रन्थी भणिता तद् नवरं 'नेम' चिह्नम् उपलक्षणं द्रष्टव्यम् , तेनान्याऽपि स्त्री सुविहितानां न कल्पते परिप्वक्तुम् । इदमेव व्याचष्टे-'पशुजातिरपि' 20 छागिकाप्रभृतिपशुजातीयस्त्रीरपि आलिङ्गितुं न कल्पते, किमु तावत् परिष्वक्तुम् ? ॥ ५२३८॥ यत् तु सूत्रे परिष्वजनमभिहितं तत् कारणिकम् अत एवाह
निग्गंथो निग्गथिं, इत्थि गिहत्थं च संजयं चेव ।
पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि ।। ५२३९ ॥ निम्रन्थो निम्रन्थी परिष्वजति चतुर्गुरुकाः तपसा कालेन च गुरवः । 'स्त्रियम्' अविरतिका 25 परिष्वजति त एव तपसा गुरवः । गृहस्थं परिष्वजति चतुर्लघुकाः कालेन गुरवः । संयतं परिष्वजति त एव 'द्वाभ्यामपि लघवः' तपसा कालेन च । सर्वत्र चाज्ञादीनि दूषणानि भवन्ति ॥ ५२३२ ॥ इदमेव व्याचष्टे
निग्गंथी थी गुरुगा, गिहि पासंडि-समणे य चउलहुगा।
दोहि गुरू तवगुरुगा, कालगुरू दोहि वी लहुगा ।। ५२४० ॥ निम्रन्थस्य निम्रन्थी परिष्वजतः चतुर्गुरवो द्वाभ्यामपि गुरुकाः । स्त्रियं परिष्वजतस्त एवं तपोगुरवः । गृहस्थं परिष्वजतः चतुर्लयवः कालगुरवः । पाषण्डिपुरुषं 'श्रमगं वा साधु १°कम्, चतुर्गुरुकमित्यर्थः ॥ एवं का० ॥ २ दोहि वि गुरु तव गाभा० ॥
..
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org