________________
१३९२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ग्लानप्रकृते सूत्रम् १४-१५ अत्र च यस्मिन्नवसरे यथा हस्तकर्म सेवमानस्य मासगुरुकं भवति स विशेषः सूत्रे साक्षान्नोक्तः परमर्थादवगन्तव्यः, एवमन्यत्रापि द्रष्टव्यम् । "चउत्थभासाए" ति इह सत्या-मृषा-मिश्रा-उसत्यामृषामेदात् चतस्रो भाषाः । तत्र परेण सह विप्रतिपत्तौ सत्यां वस्तुनः साधकत्वेन बाधकत्वेन वा प्रमाणान्तरैरबाधिता या भाषा भाष्यते सा सत्या, सैव प्रमाणैर्चाधिता मृषा, सैव बाध्य5 माना-ऽवाध्यमानरूपा मिश्रा । या तु वस्तुसाधकत्वाद्यविवक्षया व्यवहारपतिता खरूपमात्राभिधित्सया प्रोच्यते सा पूर्वोक्तभाषात्रयविलक्षणा असत्यामृषा नाम चतुर्थभाषा भण्यते, सा चामअण्या-ऽऽज्ञापनीप्रभृतिस्वरूपा, तया कालिकश्रुतं निबद्धम् ; यथा-"गोयमा !” इत्यामन्त्रणी, "सचे जीवा न हंतवा" इत्याज्ञापनी इत्यादि । दृष्टिवादस्तु नैगमादिनयमतप्रतिबद्धनिपुणयुक्तिभिर्वस्तुतत्त्वव्यवस्थापकतया सत्यभाषानिबद्ध इति भावः । तथा मूढाः-विभागेनाव्यवस्थापिता 10 नया यस्मिन् तद् मूढनयम् , भावप्रधानश्वायं निर्देशः, ततो मूढनयत्वेन कालिकं विज्ञेयम् । तथा गमाः-भङ्गगणितादयः सदृशपाठा वा तैर्युक्तं गमिकम् , तद्विपरीतमगमिकम् , तेनागमिकत्वेन कालिकश्रुतं ज्ञेयम् , “गमियं दिहिवाओ, अगमियं कालियं" ( नन्दी पत्र २०२-१) इति वचनात् । कालेन हेतुभूतेन निर्वृत्तं कालिकम् , काले-प्रथम-चरमपौरुषीलक्षणे पठ्यत इति व्युत्पत्तेः । एतैर्लक्षणैः कालिकश्रुतं ज्ञेयम् ॥ ५२३५ ॥
॥ संज्ञाप्यप्रकृतं समाप्तम् ॥
16
ग्ला न प्र कृ त म् सूत्रम्
निग्गथिं च णं गिलायमाणिं पिता वा भाया वा पुत्तो वा पलिस्सएज्जा, तं च निग्गंथी साइज्जेजा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं १४॥ निग्गंथं च णं गिलायमाणं माया वा भगिणी वा धूता वा पलिस्सएज्जा, तं च निग्गंथे साइजेज्जा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहार
टाणं अणुग्घाइयं १५॥ अथास्य सूत्रद्वयस्य कः सम्बन्धः ? इत्याह
उवहयभावं दव्यं, सचित्तं इति णिवारियं सुत्ते । भावाऽसुभसंवरणं, गिलाणसुत्ते वि जोगोऽयं ॥ ५२३६ ॥
28
नन्द्यध्ययनवच° को॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org