________________
१३९६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ ग्लानप्रकृते सूत्रम् १४-१५ वा शौचवादिना वाऽशौचवादिना वा सर्वैरपि यतनया कारयति ॥ ५२४९ ॥
पंथम्मि अपंथम्मि व, अण्णस्सऽसती सती वऽकुणमाणो।
अंतरियकंचुकादी, स चिय जतणा तु पुव्वुत्ता ॥ ५२५०॥ पेथि अपथि वा वर्तमानाया अन्यस्याभावे यद्वा विद्यतेऽन्यः परं स भणितोऽपि न 5 करोति ततः खयमेवै कुर्वन् गोपालकञ्चकादिभिरन्तरितः करोति । अत्र च सैव पूर्वोक्ता यतना मन्तव्या या तृतीयोद्देशके प्रथमसूत्रे ग्लानसंयत्याः प्रतिचरणे प्रतिपादिता (गा. ३७६८ तः ) ॥५२५० ॥ एवं तावदेकाकिनः साधोविधिरुक्तः । अथ गच्छे तमेवाह
गच्छम्मि पिता पुत्ता, भाता वा अजगो व णत्तू वा।।
एतेसिं असतीए, तिविहा वि करेंति जयणाए ॥ ५२५१ ।। 10 गच्छे वसतां यदि तस्याः पिता पुत्रो भ्राता वा 'आर्यको वा' पितामहादिः 'नप्ता वा' पौत्रोऽस्ति ततः संयतीनामपरस्य वा स्त्रीजनस्याभावे तैः कर्त्तव्यम् । एतेषां' पितृप्रभृतीनामभावे 'त्रिविधा अपि' स्थविर-मध्यम-तरुणाः साधवः 'यतनया' गोपालकञ्चुकतिरोहिताः कुर्वन्ति ॥ ५२५१ ॥ इदं गच्छे प्राप्ताया अभिहितम् , अथ पथि वर्तमानाया उच्यते
दोण्णि वि वयंति पंथं, एकतरा दोणि वा न वच्चंती ।
तत्थ वि स एव जतणा, जा वुत्ता णायगादीया ॥ ५२५२ ॥ . 'द्वे अपि' निजका-ऽनिजके संयत्यौ पन्थानं व्रजतः, एकतरा वा ब्रजति, द्वे अपि न बजतः, एवमेते त्रयः प्रकाराः । अत्र तृतीयः प्रकारः शून्यः, स्थानस्थितानां वा अशकुवतां गच्छमप्राप्तानां वा भवति । त्रिष्वपि चामीषु १ येतना सैव मन्तव्या » या पूर्व ज्ञातकादिक्रमेण गच्छे प्राप्तायाः प्रोक्ता ॥ ५२५२ ॥
एवं पि कीरमाणे, सातिजणे चउगुरू ततो पुच्छा।
तम्मि अवत्थाय भवे, तहिगं च भवे उदाहरणं ॥ ५२५३ ॥ 'एवमपि' यतनया क्रियमाणे परिकर्मणि यदि सा निम्रन्थी पुरुषस्पर्श खादयति तदा चतुर्गुरवो द्वाभ्यामपि तपः-कालाभ्यां गुरवः । “ततो पुच्छ'' ति ततः शिष्यः पृच्छतियस्यां ग्लानावस्थायामुत्थातुमपि न शक्यते तस्यामपि मैथुनाभिलाषो भवतीति कथं श्रद्धेयम् ।
१'या तस्याः प्रतिकर्म करोति, कारयतीत्यर्थः॥ ५२४९ ॥ अत्रैव विशेषविधिमतिदिशन्नाह-पंथम्मि का.॥ २ 'पथि' मार्गे 'अपथि वा' ग्रामे वर्तमानायाः संयत्याः 'अन्यस्य' प्रतिचरकस्य 'असति' अभावे, अभावो नाम-नास्त्यसौ यद्वा कां०॥ ३ व तस्याः प्रतिचरणं कुर्व कां० ॥ ४ पथि वर्तमानायाः संयत्यास्त्रयः प्रकारा:-तत्र 'द्वे अपि' निजकाऽनिजके संयत्यो साधुना समं पन्थानं व्रजत इति प्रथमः, एकतरा वा बजतीति द्वितीयः, द्वे अपि न व्रजत इति तृतीयः, एवमेते त्रयः प्रकाराः। अत्र तृतीयः प्रकारः शून्यः, पथि वर्तमानायास्तस्य असम्भवात्; स्थान' कां ॥ ५॥ एतदन्तर्गत पाठः कां० एव वर्तते ॥ ६ च इमं उदा' तामा०॥ ७'ततः' पूर्वोक्तार्थप्रतिपादनानन्तरं शिष्यः को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org