________________
भाष्यगाथाः ५२०८-१५] चतुर्थ उद्देशः ।
१३८५ दुष्टादयस्त्रयः सम्यक्त्वग्रहणेऽप्ययोग्याः किं पुनर्दीक्षण-वाचनयोः ?, अतस्तेषां प्रज्ञापने 'मोघः' निष्फलः प्रज्ञापकस्य परिश्रमो मा भूदिति दुःसंज्ञाप्यसूत्रमारभ्यते ॥ ५२११ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते-प्रतिबोध्यन्त इति दुःसंज्ञाप्याः प्रज्ञप्ताः । तद्यथा---'दुष्टः' तत्त्वं प्रज्ञापकं वा प्रति द्वेषवान् , स चाप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः । एवं 'मूढः' गुण-दोषानभिज्ञः । 'व्युदाहितो नाम' कुप्रज्ञापक- 5 दृढीकृतविपरीतावबोधः । एष सूत्रार्थः ॥ अथ भाष्यविस्तरः
दुस्सन्नप्पो तिविहो, दुट्ठाती दुट्ठों वण्णितो पुचि ।
मूढस्स य निक्खेवो, अट्ठविहो होइ काययो॥ ५२१२ ॥ दुःसंज्ञाप्यो दुष्टादिभेदात् त्रिविधः । तत्र दुष्टः 'पूर्व' पाराश्चिकसूत्रे यथा वर्णितः तथाऽत्रापि मन्तव्यः । मूढस्य पुनरष्टविधो निक्षेपो वक्ष्यमाणनीत्या कर्तव्यो भवति ॥ ५२१२ ॥ 10 तत्र पदत्रयनिष्पन्नामष्टभगीं तावदाह
दुढे मूढे बुग्गाहिए य भयणा उ अट्ठिया होइ।
पढमगभंगे सुत्तं, पढमं बिइयं तु चरिमम्मि ॥ ५२१३ ॥ दुष्टो मूढो व्युद्राहित इति त्रिभिः पदैरष्टिका भजना भवति, अष्टौ भङ्गा इत्यर्थः । अत्र च प्रथमे भङ्गे प्रथमं सूत्रं निपतति, 'चरमे' अष्टमे भङ्गे 'अदुष्टोऽमूढोऽव्युद्राहितः' इत्येवं-15 लक्षणे 'द्वितीय' वक्ष्यमाणं सूत्रमिति ॥ ५२ १३ ॥ अथ मूढस्याष्टधा निक्षेपमाह
दव्य दिसि खेत काले, गणणा सारिक्ख अभिभवे वेदे।
बुग्गाहणमन्नाणे, कसाय मत्ते य मूढपदा ॥ ५२१४ ॥ द्रव्यमूढो दिग्मूढः क्षेत्रमूढः कालमूढो गणनामूढः सादृश्यमूढोऽभिभवमूढो वेदमूढश्चेत्यष्टधा मूढः । तथा "बुग्गाहण" ति व्युड्राहणामूढो व्युद्भाहित इति चैकोऽर्थः, स च वक्ष्यमाणद्वीप-20 जातवणिक्सुतादिवत् । “अन्नाणि" ति नत्रः कुत्सार्थत्वाद् 'अज्ञानं' मिथ्याज्ञानम् , तच भारत-रामायणादिकुशास्त्रश्रुतिसमुत्थम् , तेन यो मूढः सोऽपि व्युद्राहितो भण्यते । 'कषायमूढः' तीवकषायवान् , स च कषायदुष्टे सर्पपनालादिदृष्टान्तसिद्धेऽन्तर्भवति । 'मत्तो नाम' यक्षावेशेन मोहोदयेन वा उन्मत्तीभूतः, स च अभिभवमूढ-वेदमूहादाववतरतीति । एतानि मूढपदानि भवन्तीति द्वारगाथास पार्थः ॥ ५२१४ ॥ साम्प्रतमेनामेव विवृणोति
धूमादी बाहिरतो, अंतो धत्तूरगादिणा दवे ।
जो दव्वं व ण जाणति, घडिगावोदों व दिलु पि ॥ ५२१५ ॥ इह यो बाह्येनाभ्यन्तरेण वा द्रव्येण मोहमुपगतः स द्रव्यमूढ उच्यते । तत्र बायतो धूमादिनाऽऽकुलितो यो मुह्यति, 'अन्तः' अभ्यन्तरे च धत्तूरकेण मदनकोद्रवोदनेन वा भुक्तेन यो मुह्यति । अथवा यः पूर्वदृष्टं द्रव्यं कालान्तरे दृष्टमपि न जानीते स द्रव्यमूढः । 30
घटिकावोद्रवत्१°यः प्रस्तुतसूत्रोपात्ताः सम्य° कां ॥ २ एतदनन्तरं कां० पुस्तके ग्रन्थानम्-२००० इति वर्तते ॥ ३ °ङ्गीमाह मो० ॥ ४'दो व दिटुंतो ताभा० )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org