________________
10
१३८४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ संज्ञाप्यप्रकृते सूत्रम् १२ अस्य वाचने दोषानाह
दुविधो उ परिच्चाओ, इह चोदण कलह देवयच्छलणा ।
परलोगम्मि य अफलं, खित्तम्मि व ऊसरे बीजं ॥ ५२०८ ॥ दुर्विनीतादेरपात्रस्य वाचनादाने 'द्विविधः परित्यागः' इह-परलोकभेदाद् भवति । तत्रेह5 लोकपरित्यागो नाम-स यदि स्मारणादिना प्रेर्यते तदा कलहं करोति, अपात्रवाचनेन च प्रमत्तं प्रान्तदेवता छलयेत् । परलोके तु परित्यागः–तस्य श्रुतप्रदानं 'अफलं' सुगति-बोधिलाभादिकं पारत्रिकं फलं न प्रापयति, ऊपर इव क्षेत्रे बीजमुप्तं यथा निष्फलं भवति ॥ ५२०८ ।। ___ "सो य इयरे य चत्ता” (गा० ५१९९) इति पदं व्याख्याति
वाइजति अपत्ता, हणुदाणि वयं पि एरिसा होमो ।
इय एस परिचातो, इह-परलोगेऽणवत्था य ॥ ५२०९ ॥ स तावद् ज्ञानाचारविराधकतया संसारं परिभ्रमतीति परित्यक्तः । इतरेऽपि साधवस्तान् वाच्यमानान् दृष्ट्वा चिन्तयन्ति-अहो ! अपात्राण्यपि यदि वाच्यन्ते "हणुदाणि" ति ततः साम्प्रतं वयमपीदृशा भवामः; "इय" एवं तेषामपि दुर्विनयादौ प्रवर्तमानानामिह-परलोकयोः
परित्यागः कृतो भवति । अनवस्था चैवं भवति, न कोऽपि विनयादिकं करोतीत्यर्थः ॥ ५२०९ ॥ 15 अथ 'द्वितीयपदमध्वादिषु भवति' (गा० ५१९९) इति यदुक्तं तद् व्याचष्टे
अद्धाण-ओमादि उवग्गहम्मि, वाए अपत्तं पि तु वट्टमाणं ।
वुच्छिञ्जमाणम्मि व संथरे वी, अण्णासतीए वि तु तं पि वाए ॥ ५२१० ॥ अध्वनि वा अवमौदये वी आदिशब्दाद् राजद्विष्टादिषु वा भक्त-पानादिना गच्छस्योपग्रहे वर्तमानम् 'अपात्रमपि' दुर्विनीतादिकं लब्धिसम्पन्नं वाचयेत् । अथवा किमप्यपूर्व श्रुतं तस्या20ऽऽचार्यस्य समस्ति, पात्रभूतश्च शिष्यो न प्राप्यते, तच्चान्यत्रासाम्यमाणं व्यवच्छिद्यते, ततः
संस्तरणेऽपि अपात्रं वाचयेत् । यद्वा नास्ति तस्यान्यः कोऽपि शिष्यस्ततोऽन्यस्याभावे 'मा सूत्रार्थों विस्मरताम्' इति कृत्वा 'तमपि' अपात्रभूतं वाचयेत् ॥ ५२१०॥
॥ वाचनाप्रकृतं समाप्तम् ॥
25
संज्ञा प्य प्रकृतम् सूत्रम्
तओ दुस्सन्नप्पा पन्नत्ता, तं जहा-दुढे मूढे वुग्गा
हिए १२॥ अस्य सम्बन्धमाह
सम्मत्ते वि अजोग्गा, किमु दिक्खण-वायणासु दुट्ठादी।
दुस्सन्नप्पारंभो, मा मोह परिस्समो होजा ॥ ५२११ ॥ १ 'तत इदानी वयः क्रो० ॥ २ 'माणे वि य संघ ताभा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org