________________
10
भाष्यगाथाः ५१९९-५२०७] चतुर्थ उद्देशः ।
१३८३ दानमधिकतरं दुर्विनयं वर्धयति । तथा दोषाणां-रोगाणामुदये 'चः' समुच्चये 'शमनम्' औषधं न दीयते, यतश्च निदानादुत्थितो व्याधिः तत्तुल्यं-तत्सदृशमपि वस्तु रोगवृद्धिभयान्न दीयते; यद्वा दोषोदये दीयमानं शमनं न ननिदानतुल्यं भवति, किन्तु भवत्येव, ततो न दातव्यम् ; एवमस्यापि दुर्विनयदोषभरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देयम् ॥ ५२०२।।
विणयाहीया विजा, देंति फलं इह परे य लोगम्मि ।
न फलंति विणयहीणा, सस्साणि व तोयहीणाई ॥ ५२०३ ॥ विनयेनाधीता विद्या इह परत्र च लोके फलं ददति, जनपूजनीयता-यशःप्रवादलाभादिकमैहिकं निःश्रेयसादिकं चाऽऽमुष्मिकं फलं दौकयन्तीति हृदयम् । विनयहीनास्तु ता अधीता भ फलन्ति, सस्यानीव तोयहीनानि-यथा जलमन्तरेण धान्यानि न फलन्ति ॥ ५२०३ ॥ अथ विकृतिप्रतिवद्धमाह--
रसलोलुताइ कोई, विगति ण मुयति दढो वि देहेणं ।
अन्भंगेण व सगडं, न चलइ कोई विणा तीए ॥ ५२०४॥ रसलोलुपतया कश्चिद् देहेन दृढोऽपि विकृति न मुञ्चति स वाचयितुमयोग्यः । कश्चित् पुनरभ्यङ्गेन विना यथा शकटं न चलति तथा 'तया' विकृत्या विना निर्वोढुं न शक्नोति तस्य गुरूणामनुज्ञया विधिना गृहतो वाचना दातव्येति ॥ ५२०४ ॥ किञ्च
15 उस्सग्गं एगस्स वि, ओगाहिमगस्स कारणा कुणति ।
गिण्हति व पडिग्गहए, विगति वर मे विसर्जिता ॥ ५२०५॥ योगं वहमानः कश्चिदेकस्याप्यवगाहिमस्य कारणाद् विकृत्यनुज्ञापनाविषयं - कायोत्सर्ग करोति । प्रतिग्रहे वा विकृतिं गृह्णाति, वरममुनाऽप्युपायेन मे विकृति विसर्जयितारः ॥ ५२०५॥ एवं मायां कुर्वतः किं भवति ? इत्याह
अतवो न होति जोगो, ण य फलए इच्छियं फलं विजा ।
अवि फलति विउलमगुणं, साहणहीणा जहा विजा ॥ ५२०६॥ 'अतपाः' तपसा विहीनः 'योगः' श्रुतस्योद्देशनादिव्यापारो न भवति । न च तपसा विना गृह्यमाणा 'विद्या' श्रुतज्ञानरूपा ईप्सितं' मनोऽभिप्रेतं फलं फलति, 'अपि' इति अभ्युच्चये, प्रत्युत विपुलम् 'अगुणम्' अनर्थ फलति । यथा साधनहीना विद्या, यस्याः प्रज्ञप्तिप्रभृतिकाया 25 विद्याया उपवासादिको यः साधनोप चारः सा तमन्तरेण गृह्यमाणेति भावः ॥ ५२०६ ॥ अथाव्यवशमितप्राभृतं व्याचष्टे
अप्पे वि पारमाणि, अवराधे वयति खामियं तं च ।
बहुसो उदीरयंतो, अविओसियपाहुडो स खलु ॥ ५२०७॥ ‘अल्पेऽपि परुषभाषणादावपराधे “पारमाणि" परमं क्रोधसमुद्धातं यो व्रजति, 'तच्च' 30 अपराधजातं क्षामितमपि यो बहुश उदारयति स खल्यव्यवशमितप्राभृत उच्यते ॥ ५२०७ ॥
१°न्ति, एवं विद्या अपि विनयमन्तरेण निष्फला मन्तव्येति ॥ ५२०३ ॥ का० ॥ २० एतन्मध्यगतः पाठः कां० एव वर्तते ॥ ३ “पारमाणि रिति परः क्रोधसमुद्धातः" इति चूर्णी ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org