________________
१३८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वाचनाप्रकृते सूत्रम् १०-११ मुत्तवा शेषाणि स्थानानि अविनीतादीनां त्रयाणां नैकान्तेन प्रतिषिद्धानि । ग्रहणशिक्षाप्रतिषेधार्थ तु प्रस्तुतं सूत्रमारभ्यते । अयमपरः सम्बन्धस्य 'कल्पः' प्रकारो भवति ॥ ५१९८ ॥ ___ अनेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते 'वाचयितुं सूत्रं पाठयितुमर्थ वा श्रावयितुम् । तद्यथा-'अविनीतः' सूत्रा-ऽर्थदातुर्वन्दनादिविनयरहितः । 'विकृतिप्रतिबद्धः' घृतादिरसविशेषगृद्धः, अनुषधानकारीति भावः । अव्यवशमितम्-अनुपशान्तं प्राभृतमिव प्राभृतंनरकपालकौशलिकं तीव्रक्रोधलक्षणं यस्यासौ अव्यवशमितप्राभृतः ॥ एतद्विपरीतास्तु त्रयोऽपि कल्पन्ते वाचयितुम् । तद्यथा-विनीतो नोविकृतिप्रतिबद्धो व्यवशमितप्राभृतश्चेति सूत्रार्थः ।। अथ नियुक्तिविस्तरः- विगइ अविणीऍ लहुगा, पाहुड गुरुगा य दोस आणादी।
सो य इयरे य चत्ता, वितियं अद्धाणमादीसु ॥ ५१९९ ॥ . विकृतिप्रतिबद्धमविनीतं च वाचयतश्चतुर्लघुकाः । अव्यवशमितप्राभृतं वाचयतश्चतुर्गुरुकाः । आज्ञादयश्च दोषाः । स च 'इतरे च' साधवः परित्यक्ता भवन्ति । तत्र स तावद् विनयमकुर्वन् ज्ञानाचारं विराधयतीति कृत्वा परित्यक्तः, इतरे च तमविनीतं दृष्ट्वा विनयं न
कुर्वन्तीति परित्यक्ताः । द्वितीयपदमत्र भवति–अध्वादिषु वर्तमानानां योऽविनीतादिरप्युप16 ग्रहं करोति स वाचनीयः । एषा नियुक्तिगाथा॥५१९९॥ एनामेव भाष्यकृद् विवृणोति
अविणीयमादियाणं, तिण्ह वि भयणा उ अट्ठिया होति ।
पढमगभंगे सुत्तं, पढमं बितियं तु चरिमम्मि ।। ५२००॥ अविनीतादीनां त्रयाणामपि पदानां अष्टिका भजना भवति, अष्टभङ्गीत्यर्थः । यथाअविनीतो विकृतिप्रतिबद्धोऽव्यवशमितप्राभृतः १ अविनीतो विकृतिप्रतिबद्धो व्यवशमित20 प्राभृतः २ इत्यादि यावदष्टमो भङ्गो विनीतो विकृत्यप्रतिबद्धो व्यवशमितप्राभृतश्चेति । अत्र च प्रथमे भङ्गे प्रथमसूत्रं निपतति, 'चरमे' अष्टमे भने द्वितीयं सूत्रमिति ॥ ५२०० ॥ अथ त्रयाणामपि वाचने यथाक्रमं दोषानाह
इहरा वि ताव थब्भति, अविणीतो लंभितो किमु सुएण ।
__ मा णट्ठो णस्सिहिती, खए व खारावसेओ तु ॥ ५२०१॥ 25 'इतरथाऽपि' श्रुतप्रदानमन्तरेणापि तावदविनीतः 'स्तस्यते' स्तब्धो भवति किं पुनः श्रुतेन लम्भितः सन् ?, महिमानमिति शेषः । अतः खयं नष्टोऽसौ अन्यानपि मा नाशयिष्यति, क्षते वा क्षारावसेको मा भूदिति कृत्वा नासौ वाचनीयः ॥ ५२०१॥ अपि च
गोजूहस्स पडागा, सयं पयातस्स वड्डयति वेगं ।
दोसोदए य समणं, ण होइ न निदाणतुल्लं वा ॥ ५२०२॥ 30 इह गोपालको गवामग्रतो भूत्वा यदा पताकां दर्शयति तदा ताः शीघ्रतरं गच्छन्तीति श्रुतिः, ततो गोयूथस्य स्वयं प्रयातस्य यथा पताका वेगं वर्धयति तथा दुर्विनीतस्यापि श्रुतप्र
१ 'स्य सोऽव्य भा० का• ॥ २ 'सच' अविनीतादिर्वाच्यमानः 'इतरे का० ॥ ३ व तम्भ का.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org