________________
१३८० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रवाज०प्रकृते सूत्रम् ५-९
'त्वया सममहं परतीर्थिकेषु गमिष्यामि' एवमुक्तः स तरुणवृषभ आममिति भणित्वा निर्गच्छति । निर्गतश्च भिक्षुकादिवेषेण गत्वा तेषु भिक्षुकादिषु प्रक्षिप्य नश्यति । यः पुनस्तत्र नीतोऽपि तं साधु न मुञ्चति तं रात्रौ सुप्तं मत्वा 'तत एव' भिक्षुकादिस्थानात् पलायते, भिक्षादिलक्ष्येण वा निर्गतो नश्यति ॥ ५१८९ ॥ 6 सूत्रम्
एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजि.
त्तए संवासित्तए ५-६-७-८.९ ॥ यथैते पण्डकादयस्त्रयः प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चित् छलितेन प्रवाजिता अपि सन्तः 'मुण्डापयितुं' शिरोलोचेन लुञ्चितुं न कल्पन्ते । एवं 'शिक्षापयितुं' प्रसुपेक्षणा10 दिसामाचारी ग्राहयितुम् 'उपस्थापयितुं' महाव्रतेषु व्यवस्थापयितुं 'सम्भोक्तुम्' एकमण्डलीसमु. द्देशादिना व्यवहारयितुं 'संवासयितुम्' आत्मसमीपे आसयितुमिति सूत्रार्थः ॥ अथ भाष्यम्
पन्याविओ सिय त्ति उ, सेसं पणगं अणायरणजोग्गो ।
अहवा समायरंते, पुरिमपदऽणिवारिता दोसा ॥ ५१९० ॥ स पण्डकः 'स्यात्' कदाचिदनाभोगादिना प्रव्राजितो भवेत् , इतिशब्दः खरूपपरामर्शार्थः । 16 एवं प्रवाजितोऽपि यदि पश्चाद् ज्ञातस्तदा "सेसं पणगं" ति विभक्तिव्यत्ययात् 'शेषपञ्चकस्य' मुण्डापनादिलक्षणस्यानाचरणयोग्यः, न तद् आचरणीयमिति भावः । अथ लोभाद्यभिभूततया तदपि समाचरति ततः पूर्वस्मिन्-प्रत्राजनाख्ये पदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्ते अनिवारिताः, तदवस्था एव मन्तव्या इति भावः ॥ ५१९०॥
मुंडाविओ सिय ती, सेसचउकं अणायरणजोग्गो ।
अहवा समायरंते, पुरिमपदऽनिवारिया दोसा ॥ ५१९१ ॥ __ अनाभोगादिना मुण्डापितोऽपि स्यात् ततः 'शेष चतुष्कस्य' शिक्षापनादिलक्षणस्याचरणे अयोग्यः । अथ समाचरति ततः पूर्वपददोषा अनिवारिताः ॥ ५१९१ ॥ एवं तिसो गाथा वक्तव्याः, यथा--
सिक्खाविओ सिय ची, सेसतिगस्सा अणायरणजोग्गो । अहवा समायरंते, पुरिमपदनिवारिया दोसा ॥ ५१९२ ॥ उवट्ठाविओ सिय ती, सेसद्गस्सा अणायरणजोग्गो।। अहवा समायरंते, पुरिमपदऽनिवारिया दोसा ॥५१९३ ॥ सं जिओ सिय त्ती, संवासेउं अणायरणजोग्गो ।
अहवा संवासिते, पुरिमपदनिवारिया दोसा ॥ ५१९४ ॥ 30 एवं षड्विधसचित्तद्रव्यकल्पसूत्राणि क्रमेण भवन्ति ॥ ५१९२ ॥ ५१९३ ॥ ५१९४ ।। तथा चात्रामी दृष्टान्ताः१ण षडेव भ° का०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org