SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा: ५१८१-८९१ चतुर्थ उद्देशः। १३७९ ___ छलियातिकहं कडति, कत्थ जती कत्थ छलियाई ॥ ५१८४ ॥ ___ अहमेतैरेवाध्यापितस्ततोऽपि प्रतिषेधः कार्यः, न किमप्यस्माभिरध्यापित इत्यर्थः । अथवा वक्तव्यम्-किं त्वयाऽधीतम् ? । ततोऽसौ छलितकाव्यादिकथामाकर्षेत् तत्र वक्तव्यम्- कुत्र यतयः ? कुत्र च छलितादिकाव्यकथा ?, साधवो वैराग्यमार्गस्थिताः शृङ्गारकथां न पठन्ति न वा पाठयन्ति ॥ ५१८४ ॥ वयमीदृशं सर्वज्ञभाषितं सूत्रं पठामः पुव्वावरसंजुत्तं, वेरग्गकरं सतंतमविरुद्धं । पोराणमद्धमागहमासानियतं हवति सुतं ॥ ५१८५ ॥ ___ यत्र पूर्व सूत्रनिबन्धः पाश्चात्यसूत्रेण न व्याहन्यते तत् पूर्वापरसंयुक्तम् । 'वैराग्यकरं' विष. यसुखवैमुख्यजनकम् । स्वतन्त्रेण-खसिद्धान्तेन सहा विरुद्धं खतन्त्राविरुद्धम् , 'सर्वथा सर्वकालं सर्वत्र नास्त्यात्मा' इत्यादिस्खसिद्धान्तविरोधरहितमित्यर्थः । 'पौराणं नाम' पुराणैः-तीर्थकर-10 गणधरलक्षणैः पूर्वपुरुषैः प्रणीतम् । अर्धमागधभाषानियतमिति प्रकटार्थम् । एवंविधमस्मदीयं सूत्रं भवति ॥ ५१८५ ॥ किञ्च जे सुत्तगुणा भणिया, तबिवरीयाइँ गाहए पुदि । नित्थिन्नकारणाणं, स चेव विगिचणे जयणा ॥ ५१८६ ॥ ये सूत्रस्य गुणाः "निदोसं सारवंतं च, हे उजुत्तमलंकियं ।" इत्यादयः पीठिकायां (गा015 २८२ ) भणिताः तद्विपरीतानि तद्गुणविकलानि सूत्राणि पूर्वमेव तं ग्राहयेत् । ततः 'निस्तीर्णकारणानां' समाप्तविवक्षितप्रयोजनानां सैव 'विवेचने' परिष्ठापने यतना भवति ॥ ५१८६ ॥ एवं व्यवहारेण परिष्ठापनविधिरुक्तः । यस्तु व्यवहारेण न शक्यते परित्यक्तुं तस्यायं विधिः कावालिए सरक्खे, तच्चण्णिय वसभ लिंगरूवेणं । वडंबगपव्वइए, कायव्य विहीऍ वोसिरणं ॥ ५१८७॥ गीतार्था अविकारिणो वृषभा उच्यन्ते, ते कापालिक-सरजस्क-तचन्निकवेषग्रहणेन तं परिष्ठापयन्ति । यः वडुम्बकः-बहुखजनः प्रव्राजितस्तस्यैवंविधेन विधिना व्युत्सर्जनं कर्तव्यम् ॥ ५१८७ ॥ एतदेव भावयति निववल्लह बहुपक्खम्मि वा वि तरुणविसहामिणं विति । भिन्नकहाओभट्ठा, न घडइ इह वच्च परतित्थि ॥५१८८॥ यो नृपस्य वल्लभो बहुपाक्षिको वा-प्रभूतखजन-मित्रवर्गस्तयोरयं परिष्ठापने विधिः-यदा नपुंसको रहसि तरुणभिक्षुमवभाषते भिन्नकथां वा करोति तदा ते तरुणवृषभा इदं ब्रुवते'इह' यतीनां मध्ये ईदृशं न घटते, यदि त्वमीदृशं कर्तुकामोऽसि तत उन्निष्क्रमणं कुरु परतीर्थिकेषु वा व्रज ॥ ५१८८ ॥ ततो यदि ब्रूयात् तुमए समगं आमं, ति निग्गओ भिक्खमाइलक्खे। नासति भिक्खुगमादिसु, छोढूण ततो (च्चिय) ? पलाति ।।५१८९॥ १°णा पुण, तेणं चिय णं विविंचंति ताभा ॥ २ 'कसम्बन्धिनः विरूपेण' पबहन का० ॥ ३°णवसहा इमं वि तामा० ॥ ४ वि विपला' तामा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy