SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १३७४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रबाज०प्रकृते सूत्रम् ४ स्योक्तः ॥ ५१६४ ॥ गतः क्लीबः, अथ वातिकं व्याचष्टे उदएण वादियस्सा, सविकारं जाण तस्स संपत्ती । तच्चनि-असंवुडीए, दिर्सेतो होइ अलभते ॥ ५१६५ ॥ यदा सनिमित्तेनानिमित्तेन वा मोहोदयेन सागारिक 'सविकारं' काषायितं भवति तदा न 5 शक्नोति वेदं धारयितुं यावन्न 'तस्य' प्रतिसेवमानस्य सम्प्राप्तिर्भवति, एष वातिक उच्यते । अत्र च तचनिकेनासंवृताया अगार्याः प्रतिसेकेन दृष्टान्तो भवति एगो तच्चनिओ जलयरनावारूढो । तत्थ तस्स पुरओ अहाभावेण अगारी असंवुडा निविट्ठा । तस्स य तच्चनियस्स तं दटुं सागारियं थद्धं । तेण वेयउक्कडयाए असहमाणेण जणपुरओ पडिगाहिया अगारी । तं च पुरिसा हंतुमारद्धा तहावि तेण न मुक्का । जाहे से 10 बीयनिसग्गो जाओ ताहे मुक्का ॥ अयमपि 'अलभमानः' अप्रामुवन् निरुद्धवेदो नपुंसकतया परिणमति ॥ ५१६५॥ ___ उक्तो वातिकः । “एकग्रहणेन तज्जातीयानां सर्वेषामपि गहणम्" इति कृत्वा अपरानपि नपुंसकभेदान् निरूपयति पंडए वाइए कीवे, कुंभी ईसालुए ति य । 15 सउणी तकम्मसेवी य, पक्खियापक्खिते ति य ॥ ५१६६ ॥ सोगंधिए य आसित्ते, वद्धिए चिप्पिए ति य । मंतोसहिओवहते, इसिसत्ते देवसत्ते य ॥ ५१६७॥ पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा-जातिकुम्मी वेदकुम्मी च । यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रवा20 जनायां भजनीयः- यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रवाज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । 'ईर्ष्यालुर्नाम' यस्य प्रतिसेव्यमानं दृष्ट्वा ईर्ष्या-मैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । 'शकुनी' वेदोत्कटतया गृहचटक इवाऽभीक्ष्णं प्रतिसेवनां करोति । 'तत्कर्मसेवी नाम' यदा प्रतिसेविते 28 बीजनिसर्गों भवति तदा श्वान इव तदेव जिह्वया लेढि, एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तु स उच्यते यस्यै कस्मिन् शुक्ले कृष्णे वा पक्षेऽतीव मोहोदयो भवति, द्वितीयपक्षे तु स खल्पो भवति ॥ ५१६६ ॥ 'सौगन्धिको नाम' सागारिकस्य गन्धं शुभं मन्यते, स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । "आसित्तो नाम" स्त्रीशरीरासक्तः, स मोहोत्कटतया योनौ मेहनमनुपविश्य 30 नित्यमास्ते । एते सर्वेऽपि निरुद्धवस्तयः कालान्तरेण नपुंसकतया परिणमन्ति । । ऐते च पण्डकादयो दशापि प्रव्राजयितुमयोग्याः । तथा » 'वर्द्धितो नाम' यस्य बालस्यैव च्छेदं दत्त्वा १ कारं तस्स जाव संप ताभा० ॥ २॥ एतचिहान्तर्गतः पाठः कां० एव वर्त्तते ॥ ३ °दं कृत्वा हे. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy