________________
भाष्यगाथाः ५१६५-७१] चतुर्थ उद्देशः ।
१३७५ द्वौ प्रातरावपनीतौ । 'चिप्पितस्तु' यस्य जातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी-मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम् । अपरस्तु मन्त्रेणोपहतो भवति । अन्यः पुनरौषध्या उपहतः । कश्चिद ऋषिणा शप्तो भवति-मम तपःप्रभावात् . पुरुषभावस्ते मा भूयात् । एवमपरो देवेन रुष्टेन शप्तः । एते वर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रवाजयितव्याः ॥ ५१६७ ॥ अथैतेषां प्रव्राजने प्रायश्चित्तमाह
दससु वि मूलाऽऽयरिए, वयमाणस्स वि हवंति चउगुरुगा।
सेसाणं छण्हं 'पी, आयरिऍ वदंति चउगुरुगा ।। ५१६८॥ पण्डकादीन् आसिक्तान्तान् दशापि नपुंसकान् यः प्रव्राजयति तस्याऽऽचार्यस्य दशस्वपि प्रत्येकं मूलम् । तेष्वेव दशसु यो वदति 'प्रव्राजयत' तस्याऽपि चतुर्गुरुका भवन्ति । 'शेषाणां' वर्द्धितादीनां षण्णामपि प्रतिसेवकानां प्रव्राजने आचार्यस्य चतुर्गुरुकम् । यो वदति 'प्रवाजयत' 10 तस्यापि चतुर्गुरुकम् ॥ ५१६८ ॥ अथ शिष्यः प्रश्नयति
थी-पुरिसा जह उदयं, धरेंति झाणोववास-णियमेहि।
एवमपुमं पि उदयं, धरिज जति को तहिं दोसो ॥ ५१६९॥ यथा स्त्री-पुरुषा ध्यानोपवास-नियमैरुपयुक्ता वेदोदयं धारयन्ति, एवम् 'अपुमान्' नपुंसकोऽपि यदि वेदोदयं धारयेत् ततः 'तत्र' प्रवाजिते को दोषः स्यात् ! ॥ ५१६९ ॥ 16
अहवा ततिए दोसो, जायइ इयरेसु किं न सो भवति ।
एवं खु नत्थि दिक्खा, सवेययाणं न वा तित्थं ॥ ५१७० ॥ अथवा युष्माकमभिप्रायो भवेत् -'तृतीये' नपुंसके वेदोदये चारित्रभङ्गलक्षणो दोषो भवेत् , तत उच्यते--'इतरयोः' स्त्री-पुरुषयोरपि वेदोदये स दोषः किं न भवति ।। अपि चक्षीणमोहादीन् मुक्त्वा शेषाः सर्वेऽपि संसारस्था जीवाः सवेदकाः, तेषां च दोषदर्शनादेव 20 भवदुक्तनीत्या नास्ति दीक्षा, तदभावाच्च 'न तीर्थ' न तीर्थस्य सन्ततिर्भवति ॥ ५१७० ॥ सूरिराह
थी-पुरिसा पत्तेयं, वसंति दोसरहितेसु ठाणेसु ।
संवास फास दिट्ठी, इयरे वत्थंबदिटुंतो॥५१७१ ॥ स्त्री प्रव्राजिता स्त्रीणां मध्ये निवसति, पुरुषः प्रवाजितः पुरुषमध्ये वसति, एवं तौ प्रत्येकं दोष-25 रहितेषु स्थानेषु वसतः । इतरस्तु-पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्पर्शतो दृष्टितश्च दोषा भवन्ति, एवं पुरुषेष्वपि संवसतस्तस्य दोषा भवन्ति । वत्सा-ऽऽनदृष्टान्तश्चात्र भवति
यथा वत्सो मातरं दृष्ट्वा स्तन्यमभिलषति, माताऽपि पुत्रं दृष्ट्वा प्रसौति; आनं वा खाद्यमानमखाद्यमानं वा दृष्ट्वा यथा मुखं क्लियति; एवं तस्य संवासादिना वेदोदयेनाभिलाष उत्पद्यते ॥
भुक्ता-ऽभुक्तभोगिनः साधवो वा तमभिलषेयुः । यत एवमतः पण्डको न दीक्षणीयः 30 १पिय, आताभा० ॥ २ तस्यैवं वदतोऽपि कां० ॥ ३ °षो जायते 'इत कां०॥ ४ स्य पुरुष-स्त्रीसंवासादिसमुत्थेन वेदो का० ॥ ५ साधु-साध्वीजना वा त° कां ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org