________________
माष्यगाथाः ५१५५- ६४ ]
चतुर्थ उद्देशः ।
१३७३
वा न वा ?, तस्मिन् सेव्यमाने अतीव सुखमुत्पद्यते । ततस्तस्य साधोराशयं ज्ञात्वा भणति – अहमेव नपुंसकः 'द्विधाऽपि' आस्यक-पोसकाभ्यां प्रतिसेवनीयः । एवं तं पण्डकं ज्ञात्वा गुरूणामा लोचनीयमिति प्रक्रमः ॥ ५१६० ॥
--
सो समण सुविहितेसुं, पवियारं कत्थई अलभमाणो । तो सेब मारो, गिहिणो तह अन्नतित्थी य ।। ५१६१ ॥ 'सः' पण्डकः ‘श्रमणसुविहितेषु' स्वाध्याय- ध्याननिरतेषु साधुषु मैथुनप्रविचारं कुत्राप्यलभमानस्ततो गृहिणस्तथाऽन्यतीर्थिनश्च प्रतिसेवितुमारब्धः ॥ ५१६१ ॥ तत्रैते दोषा भवेयुःअसोय अकित्तीया, तम्मूलागं तहिं पवयणस्स |
तेसि पि होइ संका, सव्वे एयारिसा मने ॥ ५१६२ ॥
"तहिं" ति 'तत्र' विवक्षिते ग्रामादौ 'तन्मूलं' तद्धेतुकं प्रवचनस्यायशश्चा कीर्तिश्च भवति । 10 तत्रायशो नाम - छायाघातः, अकीर्त्तिः - अवर्णवादभाषणम् । ये च भट्ट-चट्ट-नर्तकप्रभृतयस्तं प्रतिसेवन्ते तेषामपि शङ्का भवति - सर्वेऽप्यमी श्रमणा 'ईदृशा एव' त्रैराशिका भविष्यन्ति । 'मन्ये' इति निपातो वितर्कार्थः ॥ ५१६२ ॥ अयशः पदमकीर्तिपदं च व्याचष्टेएरिससेवी सव्वे, वि एरिसा एरिसो व पासंडो ।
सो एसो न वि अभो, असंखडं घोडमाईहिं ॥ ५१६३ ॥
प्रभूतजनमील के लोक एवं श्रूयात् - ईदृशं - नपुंसकं सेवितुं शीलं येषां ते ईदृशसेविनः, सर्वेऽप्येते ‘ईदृशाः’ त्रैराशिकाः, 'ईदृशो वा' दम्भबहुल एष पाखण्डः । एवमयशः कीर्तिशब्दः सर्वत्रापि प्रचरति । साधून् वा भिक्षा- विचारादिनिर्गतान् दृष्ट्वा युवानः केलिप्रिया मुवते - अरे अरे भट्टिन् । गोमिन् ! स एष श्रीमन्दिरकारकः । अन्यः प्राह - नाप्येष स 'इति । अथवा ते वीरन्— समागच्छत समागच्छत श्रमणाः ! यूयमपि तादृशं तादृशं कुरुत | 20 एवमुक्तः कश्चिदसहिष्णुस्तैघटादिभिः सहासङ्घडं कुर्यात् । घोटा:- चट्टा, आदिशब्दाद् रामिक-मिण्ठ- गोपालादिपरिग्रहः || ५१६३ ॥ उक्तः पण्डकः, अथ क्लीबमाहकीवस्स गोन नाम, कम्मुदय निरोहें जायती ततिओ । तम्मि वि सो चेव गमो, पच्छित्तुस्सग्ग अववादे ।। ५१६४ ॥
'nteer 'गौ' गुणनिष्पन्नं नाम, क्लिव्यते इति क्लीत्रः । किमुक्तं भवति : - मैथुनाभिप्राये 25 यस्याङ्गादानं विकारं भजति बीजबिन्दूंश्च परिगलति स क्लीव: । अयं च महामोह कर्मोदयेन भवति । यदा च परिगलतस्तस्य निरोषं करोति तदा निरुद्धवस्ति कालान्तरेण तृतीयवेदो जायते । स च चतुर्धा - दृष्टिक्लीबः शब्दक्लीब आदिग्वक्लीबो निमन्त्रणाक्लीवश्चेति । तत्र • 'स्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीनः । यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयः । यस्तु विपक्षेणोपगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स 30 यथाक्रममदिग्धक्क निमन्त्रणाक्लीवश्चेति । चतुर्विधोऽप्ययमप्रतिसेवमानो निरोधेन नपुंसकतथा परिणमति । ‘तस्मिन्नपि' क्लीबे ' स एव प्रायश्चित्तोत्सर्गा ऽपवादेषु गमो भवति यः पण्डक१भिः सार्धमल' क
Jain Education International
For Private & Personal Use Only
5
15
www.jainelibrary.org