________________
15
भाष्यगाथाः ५१३९-४७] चतुर्थ उद्देशः ।
१३६९ महिलासहावी सर-वन्नभेओ, मेण्डं महंतं मउता य वाया।
- ससद्दगं मुत्तमफेणगं च, एयाणि छ प्पंडगलक्खणाणि ॥ ५१४४ ॥ पण्डको वक्ष्यमाणनीत्या महिलाखभावो भवति । खर-वर्णभेदश्च तस्य भवति । स्वरभेदो नाम-पुरुषस्य स्त्रियाश्च स्वराद् विलक्षणस्तस्य खरो भवति । वर्णग्रहणेन गन्ध-रस स्पर्शा अपि गृह्यन्ते, ततो वर्णभेदो नाम-वर्णादयः तस्य स्त्री-पुरुषविलक्षणा अन्यादृशा. भवन्ति । 'मेदम्' 5 अङ्गादानं तच्च ‘महत्' प्रलम्बं भवति । वाक् च 'मृदुका' कोमला भवति । मूत्रं सशब्दमफेनकं च भवति । एतानि षट् पण्डकलक्षणानि मन्तव्यानि ॥ ५१४४ ॥ 'महिलाखभावः' इति पदं व्याचष्टे
गती भवे पचवलोइयं च, मिदुत्तया सीयलगत्तया य ।
धुवं भवे दोक्खरनामधेजो, सकारपच्चंतरिओ ढकारो ॥५१४५॥ 10 गतिः स्त्रीवद् मन्दा सविभ्रमा च भवति । पार्श्वतः पृष्ठतश्च प्रत्यवलोकितं कुर्वन् गच्छति। शरीरस्य च स्वग् मृद्वी भवति । 'शीतलगात्रता च' अङ्गोपाङ्गानां शीतलः स्पर्शो भवति । एतानि स्त्रिया इव लक्षणानि दृष्ट्वा मन्तव्यम्-'ध्रुवं' निश्चितमयं घ्यक्षरनामधेयो भवेत् । तच्चाक्षरद्वयं सकारप्रत्यन्तरितो ढकार इति प्रतिपत्तव्यम् , प्राकृतशैल्या 'संढः' संस्कृते तु 'पण्ढः' इति भावः ॥ ५१४५ ॥ किञ्च
गइ भास वत्थ हत्थे, कडि पट्टि भुमा य केसऽलंकारे ।
पच्छन्न मजणाणि य, पच्छन्नयरं च णीहारो ॥ ५१४६ ॥ . "गइ". त्ति यथा स्त्री तथा शनैः सविकारं गच्छति । स्त्रीवद् भाषां भाषते । तथा वस्त्रं यथा स्त्री तथा परिधत्ते, शिरो वा वस्त्रेण स्थगयति । "हत्थे" त्ति हस्तौ कूपराधो विन्यस्य कपोलयो निवेश्य जल्पति । अभीक्ष्णं च कटीभङ्गं करोति, पृष्ठं वा वस्त्रेण सुस्थगितं करोति । 30 भाषमाणश्च सविभ्रमं भ्रूयुगलमुत्क्षिपति, भ्रू-रोमाणि वा स्त्रीसदृशानि । स्त्रीवत् केशानामोटयति । महिलानामलङ्कारान् पिनाति । प्रच्छन्ने च प्रदेशे 'मज्जनानि' सानादीनि करोति । प्रच्छन्नतरं च 'नीहारः' उच्चार-प्रश्रवणात्मकस्तेन क्रियते ॥ ५१४६ ॥
पुरिसेसु भीरु महिलासु संकरो पमयकम्मकरणो य ।
तिविहम्मि वि वेदम्मि, तियभंगो होइ कायव्यो ॥ ५१४७॥ 25 __ 'पुरुषेषु' पुरुषमध्ये 'भीरुः' सभयः शङ्कमान आस्ते । महिलासु 'सङ्करः' सम्मिलनशीलो निःशङ्को निर्भयस्तिष्ठति । प्रमदाः-स्त्रियः तासां यत् कर्म-कण्डन-दलन-पचन-परिवेषणोदकाहरण-प्रमार्जनादिकं तत् खयमेव करोतीति प्रमदाकर्मकरणः, कृत् "बहुलम्" (सिद्ध० ५-१-२) इति वचनात् कर्तरि अनदप्रत्ययः । एवमादिकं बाह्यलक्षणं पण्डकस्य मन्तव्यम् । आभ्यन्तरं तु लक्षणं तस्य तृतीयवेदोदयः । स च नपुंसकवेदस्त्रिविधेऽपि वेदे भवति, यत 30 आह-त्रिविधेऽपि वेदे प्रत्येकं त्रिकभङ्गः कर्तव्यो भवति । कथम् ? इति चेद् उच्यतेपुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसकवेदं वेदयति, एवं स्त्री-नपुंसक
१ मेहूं महंतं मउई य ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org