SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 15 गीत्थे पञ्चावण, गीयत्यें अपुच्छिऊण चउगुरुगा । तम्हा गीयत्थस्स उ, कप्पड़ पव्वावणा पुच्छा ॥ ५१४० ॥ गीतार्थेनैव प्रवाजना कर्तव्या नागीतार्थेन । यद्यगीतार्थः प्रत्राजयति तदा चतुर्गुरुकम् । 10 गीतार्थोऽपि यदि 'अपृष्ट्वा' पृच्छामन्तरेण प्रत्राजयति तदा तस्यापि चतुर्गुरुकाः । तस्माद् गीतार्थस्य पृच्छाशुद्धं कृत्वा प्रत्राजना कर्तुं कल्पते । पृच्छा विधिश्वायम् — कोऽसि त्वम् ? को वा ते निर्वेदो येन प्रव्रजसि ? ॥ ५१४० ॥ एवं पृष्ठे सेति 20 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रत्राज० प्रकृते सूत्रम् ४ वीसं तु अपव्वज्जा, निजत्तीए उ वनिया पुवि । te yr of अधिकारो, पंडे की य वाईया ॥ ५१३९ ॥ 'विंशतिः' बाल-वृद्धादिभेदाद् विंशतिसङ्ख्याः अप्रत्राज्याः 'पूर्वं ' नामनिष्पन्ने निक्षेपे 'निर्युक्तौ' पञ्चकल्पे सप्रपञ्चं वर्णिताः । इह पुनस्त्रिभिरेवाधिकारः -- पण्डकेन क्लीवेन वातिकेन चेति, गुरुतरदोषदुष्टा अमी इति कृत्वा ॥ ५१३९ ॥ अथ प्रत्राजना विधिमेव तावदाह १३६८ 25 सयमेव कोति साहति, मितेहिँ व पुच्छिओ उवाएणं । अहवा व लक्खणेहिं इमेहिँ नाउं परिहरेजा || ५१४१ ॥ स्वयमेव 'कोऽपि' पण्डकः कथयति, यथा--- सदृशे मनुष्यत्वे ममेदृशः त्रैराशिकवेदः समुदीर्ण इति । यद्वा मित्रैस्तस्य निर्वेदकारणमभिधीयेत । प्रत्राजकेन वा स एवोपायपूर्वं पृष्टः कथयेत् । अथवा 'लक्षणै: ' महिला स्वभावादिभिः 'एभिः ' वक्ष्यमाणैर्ज्ञात्वा तं परिहरेत् ॥ ५१४१ ॥ तत्र पृच्छां तावद् भावयति तणते, निव्वेयमसš पढमयो पुच्छे | अन्नाओ पुण भन्न, पंडाइ न कप्पई अम्हं ।। ५१४२ ॥ यः प्रव्रजितुमुपस्थितः स ज्ञायमानों वा स्यादज्ञायमानो वा । ज्ञायमानो नाम-अमुकोsमुकपुत्रोऽयम्, तद्विपरीतोऽज्ञायमानः । तंत्र यो ज्ञायमानः स यदि श्राद्धः - श्रावको न भवति ततः प्रथमतस्तं निर्वेदं पृच्छेत् । यः पुनरज्ञातः स समासेन भण्यते - -न कल्पतेऽस्माकं पण्डकादि प्रत्राजयितुम् ॥ ५१४२ ॥ स च यदि पण्डकस्त त एवं चिन्तयति - नाओ मिति पणासह, निव्वेयं पुच्छिया व से मित्ता । साहति एस पंडो, सयं व पंडोति निव्वेयं ॥ ५१४३ ।। ज्ञातोऽस्म्यहममभिरिति मत्वा प्रणश्यति । अथवा यानि "से" तस्य मित्राणि तानि पृच्छ्यन्ते -- एष तरुण ईश्वरो नीरोगश्च विद्यते ततः केन निर्वेदेन प्रत्रजति । एवं पृष्टानि तानि ब्रुवते - एष पण्डक इति । खयं वा सः 'पण्डकोऽस्म्यहम्' इति निर्वेदं कथयति 30॥ ५१४३ ॥ अथ पूर्वोल्लिङ्गितानि पण्डकलक्षणानि निरूपयति १ ज्याः' प्रव्राजयितुमयोग्याः | 'पूर्व' कां ॥ २ " णिज्जुती पंचकप्पो" इति चूर्णौ विशेषचूर्णो च ॥ ३वा | गाथायां सप्तमी तृतीयार्थे ॥ ५१३९ ॥ कां० ॥ ४ सति किम् ? इत्याह-सय' कां० ॥ ५ एतन्मध्यगतः पाठः भा० एव वर्त्तते ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy